१५

01 चात्वालस्थानात्पुरीषमाहृत्य पृष्टो दिवीति ...{Loading}...

चात्वालस्थानात्पुरीषमाहृत्य पृष्टो दिवीति वैश्वानर्यर्चा चितावनुव्यूहति १

02 सा चितिर्भवति ...{Loading}...

सा चितिर्भवति २

03 पञ्चचितीकञ् चिन्वीत प्रथमञ् ...{Loading}...

पञ्चचितीकं चिन्वीत प्रथमं चिन्वानः । त्रिचितीकं द्वितीयम् । एकचितीकं तृतीयम् ३

04 एकचितीकानेवात ऊर्ध्वञ् चिन्वीत ...{Loading}...

एकचितीकानेवात ऊर्ध्वं चिन्वीत ४

05 अजीजनन्नमृतम् मर्त्यास इति ...{Loading}...

अजीजनन्नमृतं मर्त्यास इति गार्हपत्यचितिमभिमृश्य समितमिति तस्यां चतसृभिरुख्यं सन्निवपति ५

06 विज्ञायते च वि ...{Loading}...

विज्ञायते च वि वा एतौ द्विषाते यश्चोखायां यश्च चीयते । ब्रह्म यजुः । यत्सन्न्युप्य विहरति ब्रह्मणैवैनौ संशास्तीति ६

07 साकं हि शुचिना ...{Loading}...

साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि । विद्वाँ अस्य व्रता ध्रुवा वया इवानु रोहत इति सन्न्युप्तावभिमन्त्र्य मातेव पुत्रमिति शिक्यादुखां निरूह्य यदस्य धारे रजत इति वैश्वानर्या शिक्यमादत्ते ७

08 नैरृतीरिष्टकाः कृष्णास्तिस्रस्तुषपक्वास्ताः शिक्यं ...{Loading}...

नैरृतीरिष्टकाः कृष्णास्तिस्रस्तुषपक्वास्ताः शिक्यं रुक्मसूत्रमासन्दीं चादाय दक्षिणमपरमवान्तरदेशं गत्वा नमः सु ते निरृत इति स्वकृत इरिणे प्रदरे वा शिक्यं निधाय तस्येष्टकाभिः पाशमभ्युपदधाति ८

09 यस्यास्ते अस्याः क्रूर ...{Loading}...

यस्यास्ते अस्याः क्रूर आसञ्जुहोमीत्येताभिस्तिसृभिः पराचीरसंस्पृष्टा दक्षिणापवर्गम् ९

10 न तयादेवतङ् करोति ...{Loading}...

न तयादेवतं करोति १०

इति पञ्चदशी कण्डिका


  1. Cf. ŚB VII.1.1.36. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS V.2.3.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS V.6.6. ↩︎ ↩︎ ↩︎ ↩︎

  4. TS I.5.11.d. ↩︎ ↩︎ ↩︎

  5. TS IV.2.5.f. ↩︎ ↩︎