१४

01 अपवृत्ते दीक्षापरिमाणेऽपेत वीतेति ...{Loading}...

अपवृत्ते दीक्षापरिमाणेऽपेत वीतेति गार्हपत्यचितेरायतनं व्यायाममात्रं चतुरस्रं परिमण्डलं वोद्धत्य हरिण्या पलाशशाखया शमीशाखया वा सम्मृज्य प्राचीमुदीचीं वा शाखामुदसित्वा शं नो देवीरभिष्टय इत्यद्भिरवोक्ष्याग्नेर्भस्मासीति सिकता निवपति १

02 सञ्ज्ञानमित्यूषान् ...{Loading}...

सञ्ज्ञानमित्यूषान् २

03 तान्निवपन्यददश्चन्द्रमसि कृष्णन् तदिहास्त्विति ...{Loading}...

तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति ३

04 सं या वः ...{Loading}...

सं या वः प्रियास्तनुव इत्यूषान्सिकताश्च संसृज्य चित स्थ परिचित इत्येकविंशत्या शर्कराभिर्गार्हपत्यचितेरायतनं परिश्रयति । तिस्रस्तिस्रः संहिताः ४

05 व्रजङ् कृणुध्वं स ...{Loading}...

व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि । पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तमिति शर्करा अभिमन्त्र्यायं सो अग्निरिति चतस्रो मध्ये प्राचीरिष्टका गार्हपत्यचितावुपदधाति ५

06 इडामग्नेऽयन् ते योनिरृत्विय ...{Loading}...

इडामग्नेऽयं ते योनिरृत्विय इति द्वे पुरस्तात्समीची तिरश्ची वा ६

07 एवम् पश्चाच्चिदसि परिचिदसीति ...{Loading}...

एवं पश्चाच्चिदसि परिचिदसीति ७

08 अवशिष्टन् त्रयोदशभिर्लोकम्पृणाभिः प्रच्छादयति ...{Loading}...

अवशिष्टं त्रयोदशभिर्लोकम्पृणाभिः प्रच्छादयति ८

09 लोकम् पृण ता ...{Loading}...

लोकं पृण ता अस्य सूददोहस इति द्वाभ्यान्द्वाभ्यां मन्त्राभ्यामेकैकां लोकम्पृणामुपदधाति ९

10 सर्वास्विष्टकासु तयादेवतमन्ततो दधाति ...{Loading}...

सर्वास्विष्टकासु तयादेवतमन्ततो दधाति १०

इति चतुर्दशी कण्डिका


  1. Cf. TS V.2.3.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. MS III.2.3; ŚB VII.1.1.37. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. ŚB VII.1.1.35. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. ŚB VII.1.1.5. ↩︎ ↩︎

  5. Cf. TS V.2.3.2. ↩︎

  6. TB I.2.1.1. ↩︎

  7. Cf. TS V.2.3.2. ↩︎

  8. TS IV.2.4.b. ↩︎