१३

01 बोधा स बोधीति …{Loading}…

बोधा स बोधीति बोधवतीभ्यामुपतिष्ठते १

02 नित्यमप्सु भस्मप्रवेशनम् दीक्षितस्य …{Loading}…

नित्यमप्सु भस्मप्रवेशनम् दीक्षितस्य कृतास्विष्टकासु । अकृतासु संसर्गार्थं भवति २

03 पुरीषे पशुकामः कुर्वीत …{Loading}…

पुरीषे पशुकामः कुर्वीत ३

04 अप्सु यायावरः प्रवयेत् …{Loading}…

अप्सु यायावरः प्रवयेत् ४

05 दीक्षितस्येष्टकाः करोति मासप्रभृतिषु …{Loading}…

दीक्षितस्येष्टकाः करोति मासप्रभृतिषु दीक्षाकल्पेषु पुरस्ताददीक्षितस्येतरेषूपरिष्टात्प्राजापत्यात्पशोः ५

06 मृन्मयीरिष्टकाः करोति पादमात्र्योऽरत्निमात्र्य …{Loading}…

मृन्मयीरिष्टकाः करोति पादमात्र्योऽरत्निमात्र्य ऊर्वस्थिमात्र्योऽणूकमात्र्य ऋजुलेखा दक्षिणावृतः सव्यावृतस्त्र्यालिखिताश्च ६

07 निर्मन्थ्येन लोहिनीः पचन्ति …{Loading}…

निर्मन्थ्येन लोहिनीः पचन्ति ७

08 अभिन्ना भवन्ति …{Loading}…

अभिन्ना भवन्ति ८

09 खण्डाङ् कृष्णां लक्ष्मणाञ् …{Loading}…

खण्डां कृष्णां लक्ष्मणां च नोपदध्यात् ९

10 पुष्करपर्णं रुक्मो हिरण्मयः …{Loading}…

पुष्करपर्णं रुक्मो हिरण्मयः पुरुषः स्रुचौ सप्त स्वयमातृणाः शर्करा हिरण्येष्टकाः ह्पञ्च घृतेष्टका दूर्वास्तम्बः कूर्म उलुखलं मुसलं शूर्पमश्मानः पशुशिरांसि सर्पशिरश्चामृन्मयीरिष्टकाः १०

11 जानुदघ्नं साहस्रञ् चिन्वीत …{Loading}…

जानुदघ्नं साहस्रं चिन्वीत प्रथमं चिन्वानः । नाभिदघ्नं द्विषाहस्रं द्वितीयम् । आस्यदघ्नं त्रिषाहस्रं तृतीयम् । उत्तरमुत्तरं ज्यायांसम् ११

12 महान्तम् बृहन्तमपरिमितं स्वर्गकामश्चिन्वीतेति …{Loading}…

महान्तं बृहन्तमपरिमितं स्वर्गकामश्चिन्वीतेति वाजसनेयकम् १२

इति त्रयोदशी कण्डिका


  1. TS IV.2.3.0-p. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. MS 11.2.2.; Cp. TS V.2.2.6. ↩︎ ↩︎ ↩︎

  3. For this sacrifice see XVI.8.2. ↩︎ ↩︎

  4. XVI.22.4-5. ↩︎

  5. XVI.23.1; XVII.1.12; XVII.3.8; XVII.7.3. ↩︎

  6. XVI.23.8; 29.1; XVII.1.14; XVII.4.1; XVII.7.2. ↩︎

  7. XVII.5.7. ↩︎

  8. XVI.24.1. ↩︎

  9. XVI.25.1. ↩︎

  10. XVI.26.1ff. ↩︎

  11. XVI.26.5. ↩︎

  12. . XVII.9.5. ↩︎

  13. . XVI.27.7ff. ↩︎

  14. XVI.27.22. ↩︎