१२

01 अदृश्रमस्य केतवो वि ...{Loading}...

अदृश्रमस्य केतवो वि रश्मयो जनाँ अनु । भ्राजन्तो अग्नयो यथा । तरणिर्विश्वदर्शत इत्येषा । दिवो रुक्म उरुचक्षा उदेति दूरे अर्थस्तरणिर्भ्राजमानः । नूनं जनाः सूर्येण प्रसूता आयन्नर्थानि कृणवन्नपांसीति १

02 यद्युख्ये भ्रियमाणे यजमानस्य ...{Loading}...

यद्युख्ये भ्रियमाणे यजमानस्य नश्येदग्नेऽभ्यावर्तिन्नग्ने अङ्गिरः पुनरूर्जा सह रय्येत्येताभिश्चतसृभिरुपतिष्ठेत २

03 विन्दत्येवेति विज्ञायते ...{Loading}...

विन्दत्येवेति विज्ञायते ३

04 यदहः प्रयायादुदु त्वा ...{Loading}...

यदहः प्रयायादुदु त्वा विश्वे देवा इत्युख्यमुद्यम्य सीद त्वं मातुरस्या उपस्थ इति चतसृभिर्द्वीषे शकटे प्रौग उख्यमासादयति ४

05 तिसृभिरासादयति हंसवत्योपतिष्ठत इत्येके ...{Loading}...

तिसृभिरासादयति । हंसवत्योपतिष्ठत इत्येके ५

06 समोप्येतरावग्नी अन्वारोप्य प्रेदग्ने ...{Loading}...

समोप्येतरावग्नी अन्वारोप्य प्रेदग्ने ज्योतिष्मान्याहीति प्रयाति ६

07 अक्रन्ददग्निरित्यक्षशब्दमनुमन्त्रयते ...{Loading}...

अक्रन्ददग्निरित्यक्षशब्दमनुमन्त्रयते ७

08 अध्यवसाय समिधाग्निन् दुवस्यतेति ...{Loading}...

अध्यवसाय समिधाग्निं दुवस्यतेति घृतानुषिक्तामवसिते समिधमादधाति ८

09 उत्तरया त्रिष्टुभा राजन्यस्य ...{Loading}...

उत्तरया त्रिष्टुभा राजन्यस्य । जगत्या वैश्यस्य ९

10 इन्धनव्रतनाध्यवसानसन्निपाते घृतानुषिक्ताम् पूर्वामादधाति ...{Loading}...

इन्धनव्रतनाध्यवसानसन्निपाते घृतानुषिक्तां पूर्वामादधाति १०

11 यद्युखाम् भस्माभिनिषीदेदुख्यमादायोदकान्तङ् गत्वेमं ...{Loading}...

यद्युखां भस्माभिनिषीदेदुख्यमादायोदकान्तं गत्वेमं सुयोनिं सुवृतं हिरण्मयं सहस्रभृष्टिं महिषावरोह । उत्सं जुषस्व मधुमन्तमूर्व समुद्रियं सदनमाविशस्व । इमं स्तनं मधुमन्तं धयापां प्रप्यातमग्ने सरिरस्य मध्ये । उत्सं जुषस्व मधुमन्तमूर्व समुद्रियं सदनमाविशस्वेत्येताभ्यामुखाया अग्निमुद्धृत्यानिरूहञ्छिक्यादुखामापो देवीः प्रति गृह्णीत भस्मैतदिति तिसृभिरप्सु भस्म प्रवेशयति ११

12 भस्मनोऽपादाय प्रपीद्य प्रसद्य ...{Loading}...

भस्मनोऽपादाय प्रपीद्य प्रसद्य भस्मनेति द्वाभ्यामुखायां प्रत्यवधाय पुनरूर्जा सह रय्येति पुनरुदैति १२

13 पुनस्त्वादित्या रुद्रा वसवः ...{Loading}...

पुनस्त्वादित्या रुद्रा वसवः समिन्धतामिति पुनरुख्यमुपसमिन्द्धे १३

इति द्वादशी कण्डिका


  1. Cf. KSXXII.12 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. KS XXII.12. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS IV.2.1.k-n. For this Sūtra cp. TS V.2.2.2. ↩︎ ↩︎ ↩︎

  4. TS IV.2.3.1,m. ↩︎