१०

01 यदग्ने यानि कानि …{Loading}…

यदग्ने यानि कानि चेति पञ्चभिरौदुम्बरमपरशुवृक्णमुख इध्ममभ्यादधाति १

02 तैल्वकमभिचरतः …{Loading}…

तैल्वकमभिचरतः २

03 दंष्ट्राभ्याम् मलिम्लूनित्याश्वत्थीं समिधमादधाति …{Loading}…

दंष्ट्राभ्यां मलिम्लूनित्याश्वत्थीं समिधमादधाति ३

04 ये जनेषु मलिम्लव …{Loading}…

ये जनेषु मलिम्लव इति वैकङ्कतीम् ४

05 यो अस्मभ्यमरातीयादिति शमीमयीम् …{Loading}…

यो अस्मभ्यमरातीयादिति शमीमयीम् ५

06 तस्मादग्निचितः पापन् न …{Loading}…

तस्मादग्निचितः पापं न कीर्तयेन्नो अग्निं बिभ्रतो नो अग्निविदः ६

07 संशितम् मे ब्रह्मोदेषाम् …{Loading}…

संशितं मे ब्रह्मोदेषां बाहू अतिरमित्युत्तमे यजमानं वाचयंस्तूष्णीमौदुम्बर्यौ समिधावादधाति ७

08 मातेव पुत्रम् पृथिवी …{Loading}…

मातेव पुत्रं पृथिवी पुरीष्यमग्निं स्वे योनौ भरिष्यत्बुखा । तां विश्वैर्देवैरृतुभिः संविदानः प्रजापतिर्विश्वकर्मा युनक्त्विति मौञ्जे शिक्ये षडुद्यामे द्वादशोद्यामे वोखामवदधाति ८

09 एकविंशतिनिर्बाधो यो रुक्मः …{Loading}…

एकविंशतिनिर्बाधो यो रुक्मः सूत्रोतो दृशानो रुक्म इति तमासीनो यजमानोऽन्तर्निर्बाधं प्रतिमुच्य बहिर्निर्बाधान्कुरुते ९

10 विश्वा रूपाणीति शिक्यपाशम् …{Loading}…

विश्वा रूपाणीति शिक्यपाशं प्रतिमुञ्चते १०

11 नक्तोषासेति कृष्णाजिनमुत्तरम् …{Loading}…

नक्तोषासेति कृष्णाजिनमुत्तरम् ११

12 सुपर्णोऽसि गरुत्मानित्युख्यमवेक्ष्य सुपर्णोऽसि …{Loading}…

सुपर्णोऽसि गरुत्मानित्युख्यमवेक्ष्य सुपर्णोऽसि गरुत्मानित्यादायोत्थायोपरि नाभेर्धारयमाणो विष्णोः क्रमोऽसीति चतुरो विष्णुक्रमान्प्राचः क्रामति १२

13 अक्रन्ददग्निरित्येतामनूच्याग्नेऽभ्यावर्तिन्निति चतसृभिः प्रदक्षिणमावर्तते …{Loading}…

अक्रन्ददग्निरित्येतामनूच्याग्नेऽभ्यावर्तिन्निति चतसृभिः प्रदक्षिणमावर्तते १३

14 उदुत्तममिति शिक्यपाशमुन्मुच्या त्वाहार्षमित्याहृत्योपतिष्ठतेऽग्रे …{Loading}…

उदुत्तममिति शिक्यपाशमुन्मुच्या त्वाहार्षमित्याहृत्योपतिष्ठतेऽग्रे बृहन्नुषसामूर्ध्वो अस्थादिति १४

15 यङ् कामयेत राष्ट्रं …{Loading}…

यं कामयेत राष्ट्रं स्यादिति तं मनसा ध्यायेत् १५

16 औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या ग्रादेशमात्रपादा मौञ्जविवाना …{Loading}…

औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या ग्रादेशमात्रपादा मौञ्जविवाना फलकास्तीर्णा वा मृदा प्रदिग्धा १६

17 सीद त्वम् मातुरस्या …{Loading}…

सीद त्वं मातुरस्या उपस्थ इति तस्यां चतसृभिरुख्यं सादयति १७

18 शर्करायां वा तिसृभिः …{Loading}…

शर्करायां वा तिसृभिः सादयति । हंसबत्योपतिष्ठत इत्येके १८

इति दशमी कण्डिका


  1. TS IV.1.10.a-e. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS V.1.10.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS IV.1.10.1. ↩︎ ↩︎ ↩︎ ↩︎

  4. Cf. KS XIX II; MS III.2.1. ↩︎ ↩︎

  5. TS IV.2.1.a. ↩︎ ↩︎

  6. Cp. IV.14.6. ↩︎

  7. Cf. MS III.2.1; KS XIX.I. ↩︎