०९

01 संवत्सरन् दीक्षित उख्यम् ...{Loading}...

संवत्सरं दीक्षित उख्यं बिभर्ति । त्र्यहं षडहं द्वादशाहं वा १

02 योऽर्वाक् संवत्सरादरुश्चिदेव स ...{Loading}...

योऽर्वाक् संवत्सरादरुश्चिदेव स इत्येके २

03 अग्नेर्वै दीक्षयेत्युक्तम् ...{Loading}...

अग्नेर्वै दीक्षयेत्युक्तम् ३

04 यत्प्राङ्मुष्टिकर्मणस्तत्कृत्वा शणकुलायेन मुञ्जकुलायेन ...{Loading}...

यत्प्राङ्मुष्टिकर्मणस्तत्कृत्वा शणकुलायेन मुञ्जकुलायेन वोखां प्रच्छाद्य मा सु भित्था इति द्वाभ्यामाहवनीये प्रवृणक्ति ४

05 मित्रैतामुखान् तपेति प्रदक्षिणमङ्गारैः ...{Loading}...

मित्रैतामुखां तपेति प्रदक्षिणमङ्गारैः परीन्द्धे ५

06 द्र्वन्नः सर्पिरासुतिरिति तस्याङ् ...{Loading}...

द्र्वन्नः सर्पिरासुतिरिति तस्यां क्रुमुकमुल्लिखितं घृतेनाक्त्वावदधाति मुञ्जांश्च ६

07 यो गतश्रीः स्यादित्युक्तम् ...{Loading}...

यो गतश्रीः स्यादित्युक्तम् ७

08 प्रदाव्यादाहरेद्यङ् कामयेत प्रस्यन्दिन्यामस्य ...{Loading}...

प्रदाव्यादाहरेद्यं कामयेत प्रस्यन्दिन्यामस्य राष्ट्रं जायुकं स्यादिति । वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्य । भर्जनादन्नकामस्य ८

09 न काम्यमग्निङ् कुर्वाण ...{Loading}...

न काम्यमग्निं कुर्वाण आहवनीये प्रवृञ्ज्यात् ९

10 जात उख्येऽनुगमयत्याहवनीयम् ...{Loading}...

जात उख्येऽनुगमयत्याहवनीयम् १०

11 परस्या अधि संवत ...{Loading}...

परस्या अधि संवत इति वैकङ्कतीं समिधमादधाति ११

12 परमस्याः परावत इति ...{Loading}...

परमस्याः परावत इति शमीमयीम् १२

13 एतद्वा विपरीतम् ...{Loading}...

एतद्वा विपरीतम् १३

14 सीद त्वम् मातुरस्या ...{Loading}...

सीद त्वं मातुरस्या उपस्थ इति तिसृभिर्जातमुख्यमुपतिष्ठते १४

इति नवमी कण्डिका


  1. KS XXII. 10. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf TS V.1.9.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS IV.1.9.c-d. ↩︎ ↩︎ ↩︎

  4. Cf. TS V.1.9.5. ↩︎

  5. Cf. MS III.1.9. ↩︎