०८

01 अपः कबन्धान्यभ्यवहरन्ति ...{Loading}...

अपः कबन्धान्यभ्यवहरन्ति १

02 प्राजापत्येन संस्थापयतीति विज्ञायते ...{Loading}...

प्राजापत्येन संस्थापयतीति विज्ञायते २

03 अपि वा सर्वेषामेतेषां ...{Loading}...

अपि वा सर्वेषामेतेषां स्थाने वायवे नियुत्वते श्वेतमजं तूपरमालभते ३

04 वायुमती श्वेतवती वपाया ...{Loading}...

वायुमती श्वेतवती वपाया याज्यानुवाक्ये । वायुमती नियुत्वती दैवतस्य ४

05 तस्य शिरः प्रच्छिद्य ...{Loading}...

तस्य शिरः प्रच्छिद्य मृदा प्रलिप्य निदधाति ५

06 वायव्यः कार्या इत्युक्तम् ...{Loading}...

वायव्यः कार्या इत्युक्तम् ६

07 तस्याग्नये वैश्वानराय द्वादशकपालम् ...{Loading}...

तस्याग्नये वैश्वानराय द्वादशकपालं पशुपुरोडाशं निर्वपति ७

08 यः कश्चनाग्नौ पशुरालभ्यते ...{Loading}...

यः कश्चनाग्नौ पशुरालभ्यते वैश्वानर एवास्य द्वादशकपालः पशुपुरोडाशो भवतीत्येके ८

09 तेनेष्ट्वा संवत्सरन् न ...{Loading}...

तेनेष्ट्वा संवत्सरं न मांसमश्नीयान्न स्त्रियमुपेयान्नोपरि शयीत ९

10 अपि वा मांसमश्नीयादुपरि ...{Loading}...

अपि वा मांसमश्नीयादुपरि शयीत स्त्रियं त्वेव नोपेयादिति वाजसनेयकम् १०

11 यत्प्राग्दीक्षणीयायास्तत्कृत्वा त्रिहविषन् दीक्षणीयान् ...{Loading}...

यत्प्राग्दीक्षणीयायास्तत्कृत्वा त्रिहविषं दीक्षणीयां निर्वपति ११

12 वैश्वानरन् द्वादशकपालन् तृतीयम् ...{Loading}...

वैश्वानरं द्वादशकपालं तृतीयं पुरस्तादसंवत्सरभृतः १२

13 यत्प्राग्दीक्षाहुतीभ्यस्तत्कृत्वाकूत्यै प्रयुजेऽग्नये स्वाहेति ...{Loading}...

यत्प्राग्दीक्षाहुतीभ्यस्तत्कृत्वाकूत्यै प्रयुजेऽग्नये स्वाहेति पञ्चाध्वरिकीर्हुत्वाकूतिमग्निमिति षडाग्निकीः । विश्वे देवस्य नेतुरिति पूर्णाहुतिं सप्तमीम् १३

14 यङ् कामयेत प्रमायुकः ...{Loading}...

यं कामयेत प्रमायुकः स्यादिति तस्य सकृदनुद्रुत्य जुहुयात् । प्राणानस्य सम्भिनत्ति । बधिरो ह भवतीति विज्ञायते १४

इत्यष्टमी कण्डिका


  1. Cp. TS V.1.8.3. Thus only the victim for Prajāpati is offered ritually. In the case of other animals only the ritual upto carrying fire around is to be done. The heads are taken and the trunks are thrown in water. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. MS III.1.10; KS XXIX.8; ŚB VI.2.2.6. According to ŚB VI.2.2.15 either five animal sacrifices or animal sacrifice for Prajāpati or one for Vāyu Niyutvat is to be performed. ↩︎ ↩︎ ↩︎ ↩︎

  3. TS IV.1.9.b. For this Sūtra cf. in general TS V. 1.9.1; cp. ŚB VI.6.1.14. ↩︎