०७

01 अग्निभ्यः कामाय पशूनालभते ...{Loading}...

अग्निभ्यः कामाय पशूनालभते मुष्करान् । प्राजापत्यमजं तूपरमुपाकृत्याश्वर्षभवृष्णिबस्तान् १

02 एकशिंशतिञ् चतुर्विंशतिं वा ...{Loading}...

एकशिंशतिं चतुर्विंशतिं वा पराचीः साभिधेनीरन्वाह । एकादश प्राकृतीः । समास्त्वाग्न इति दशाग्निकीः २

03 रायो अग्ने महे ...{Loading}...

रायो अग्ने महे त्वा दानाय समिधीमहि । ईडिष्वा हि मही वृषन्द्यावा होत्राय पृथिवीमिति यद्येकविंशतिः ३

04 उपेमसृक्षि वाजयुर्वचस्याञ् चनो ...{Loading}...

उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे । अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि । समन्या यन्तीत्येषा । अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वः स्वयशा उपस्थे । उभे अभि प्रियतमे सन्धस्थे आ च परा च चरति प्रजानन्निति तिस्रॐऽप्सुमतीर्यदि चतुर्विशतिः ४

05 अमुत्रभूयादित्यामयाविनः कुर्यात् ...{Loading}...

अमुत्रभूयादित्यामयाविनः कुर्यात् ५

06 बृहस्पते सवितर्बोधयिनमित्यनामयाविनः ...{Loading}...

बृहस्पते सवितर्बोधयिनमित्यनामयाविनः ६

07 उद्वयन् तमसस्परीति ज्योतिष्मत्या ...{Loading}...

उद्वयं तमसस्परीति ज्योतिष्मत्या परिदधाति ७

08 हिरण्यगर्भः समवर्तताग्र इति ...{Loading}...

हिरण्यगर्भः समवर्तताग्र इति स्रुच्यमाघारयति ८

09 ऊर्ध्वा अस्य समिधो ...{Loading}...

ऊर्ध्वा अस्य समिधो भवन्तीति प्रयाजानामाप्रियो भवन्ति ९

10 आग्नेयीस्त्रिष्टुभ आग्नेयानां याज्यानुवाक्याः ...{Loading}...

आग्नेयीस्त्रिष्टुभ आग्नेयानां याज्यानुवाक्याः १०

11 यः प्राणतो य ...{Loading}...

यः प्राणतो य आत्मदा इति प्राजापत्यस्य ११

12 अपि वा सञ्ज्ञप्तानां ...{Loading}...

अपि वा सञ्ज्ञप्तानां शिरांसि प्रच्छिद्य मृदा प्रलिप्य निदधाति १२

इति सप्तमी कण्डिका


  1. Cf. TS V.5.1.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. The dedication is done by the Adhvaryu. This sentence is completed in the next Sūtra. ↩︎ ↩︎ ↩︎

  3. Cp. TS V.1.8.2; V.5.1.1; MS III.1.10 where the word Kama is not used. KS XIX.8 uses the expression Agnibhyaḥ kāmebhayaḥ. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. This verse is a composite verse. ↩︎