०६

01 वसवस्त्वा च्छृन्दन्तु गायत्रेण ...{Loading}...

वसवस्त्वा च्छृन्दन्तु गायत्रेण च्छन्दसेति चतुर्भिरजाक्षीरेणोखामाच्छृणत्ति १

02 सप्तैकविंशतिं वा माषानादाय ...{Loading}...

सप्तैकविंशतिं वा माषानादाय पुरुषशिरोऽच्छैति वैश्यस्य राजन्यस्य वेषुहतस्याशनिहतस्य वा २

03 माषानुपन्युप्यायं योऽसि यस्य ...{Loading}...

माषानुपन्युप्यायं योऽसि यस्य त इदं शिर इति पुरुषशिरः प्रच्छिद्यैतेन त्वमत्र शीर्षण्वानेधीति सप्तधा वितृणां वल्मीकवपां शिरसः स्थाने प्रतिनिदधाति ३

04 योऽस्य कौष्ठ्य जगतः ...{Loading}...

योऽस्य कौष्ठ्य जगतः पार्थिवस्यैक इद्वशी । यमं भङ्ग्यश्रवो गाय यो राजानपरोध्यः । यमं गाय भङ्ग्यश्रवो यो राजानपरोध्यः । येनापो नद्यो धन्वानि येन द्यौः पृथिवी दृढा । हिरण्यकक्ष्यान्सुधुरान्हिरण्याक्षानयःशफान् । अश्वाननश्यतो दानं यमो राजाभितिष्ठतीति तिसृभिर्यमगाथाभिः परिगायति ४

05 आहरञ्जपतीत्येके ...{Loading}...

आहरञ्जपतीत्येके ५

06 इदमस्माकम् भुजे भोगाय ...{Loading}...

इदमस्माकं भुजे भोगाय भूयादिति पुरुषशिर आदायोदेह्यग्ने अधि मातुः पृथिव्या इत्याहरति ६

07 परि त्रिविष्ट्यध्वरं यात्यग्नी ...{Loading}...

परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव । आ देवेषु प्रयो दधत् । परि वाजपतिः कविरित्येषा । परि प्रागाद्देवो अग्नी रक्षोहामीवचातनः । सेधन्विश्वा अप द्विषो दहन्त्रक्षांसि विश्वहेति तिसृभिः पर्यग्नि कृत्वा मृदा प्रलिप्य निदधाति ७

इति षष्ठी कण्डिका


  1. Cf. TS V.1.7.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS IV.1.6.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS. V. 1.8.1. ↩︎