०५

01 अदित्यै रास्नासीति रास्नाङ् ...{Loading}...

अदित्यै रास्नासीति रास्नां करोति १

02 अश्रीणां रास्नायाश्च सन्धौ ...{Loading}...

अश्रीणां रास्नायाश्च सन्धौ द्वौ चतुरः षडष्टौ वा स्तनान्करोति २

03 अदितिस्ते बिलङ् गृह्णात्विति ...{Loading}...

अदितिस्ते बिलं गृह्णात्विति बिलं कृत्वा कृत्वाय सा महीमुखामित्युत्तरतः सिकतासु प्रतिष्ठाप्य मित्रैतां त उखां परिददाम्यभित्त्या एषा मा भेदीति मित्राय परिददाति ३

04 य उखाङ् करोति ...{Loading}...

य उखां करोति सो ऽषाढामेतस्या एव मृदस्तूष्णीं चतुरश्रां त्र्यालिखितामिष्टकाम् ४

05 वसवस्त्वा धूपयन्तु गायत्रेण ...{Loading}...

वसवस्त्वा धूपयन्तु गायत्रेण च्छन्दसेति सप्तभिरश्वशकेनोखां धूपयति ५

06 वृष्णो अश्वस्य शकेनेत्येके ...{Loading}...

वृष्णो अश्वस्य शकेनेत्येके ६

07 गार्हपत्याद्धूपनपचने भवतः ...{Loading}...

गार्हपत्याद्धूपनपचने भवतः ७

08 अदितिस्त्वा देवीत्यग्रेण गार्हपत्यमवटङ् ...{Loading}...

अदितिस्त्वा देवीत्यग्रेण गार्हपत्यमवटं खात्वा लोहितपचनीयैः सम्भारैरवस्तीर्य देवानां त्वा पत्नीरिति तस्मिन्नुखामवदधाति ८

09 तूष्णीमषाढामन्ववधाय लोहितपचनीयैः सम्भारैः ...{Loading}...

तूष्णीमषाढामन्ववधाय लोहितपचनीयैः सम्भारैः प्रच्छाद्य धिषणास्त्वा देवीरिति चतुर्भिरुखायामग्निमभ्यादधाति ९

10 मित्रैतामुखाम् पचेति पच्यमानान् ...{Loading}...

मित्रैतामुखां पचेति पच्यमानां तिसृभिर्मैत्रीभिरुपचरति १०

11 पक्वान् देवस्त्वा सवितोद्वपत्वित्युद्वास्यापद्यमाना ...{Loading}...

पक्वां देवस्त्वा सवितोद्वपत्वित्युद्वास्यापद्यमाना पृथिव्याशा दिश आ पृणेत्युत्तरतः सिकतासु प्रतिष्ठाप्य मित्रैतां तु उखां परिददाम्यभित्त्या एषा मा भेदीति मित्राय परिददाति ११

12 तूष्णीमषाढामुद्वास्य ...{Loading}...

तूष्णीमषाढामुद्वास्य १२

इति पञ्चमी कण्डिका


  1. This is a metaphorical girdle. Actually it is a circular line similar to girdle. Cp. XV.3.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS IV.1.5.O. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS V.1.6.4. ↩︎ ↩︎ ↩︎ ↩︎

  4. TS IV.1.5.q. ↩︎ ↩︎

  5. For the formula and the action See MS III.1.6; KS XIX.7. ↩︎ ↩︎