01 अदित्यै रास्नासीति रास्नाङ् …{Loading}…
अदित्यै रास्नासीति रास्नां करोति १
अदित्यै रास्नासीति रास्नां करोति १
02 अश्रीणां रास्नायाश्च सन्धौ …{Loading}…
अश्रीणां रास्नायाश्च सन्धौ द्वौ चतुरः षडष्टौ वा स्तनान्करोति २

03 अदितिस्ते बिलङ् गृह्णात्विति …{Loading}…
अदितिस्ते बिलं गृह्णात्विति बिलं कृत्वा कृत्वाय सा महीमुखामित्युत्तरतः सिकतासु प्रतिष्ठाप्य मित्रैतां त उखां परिददाम्यभित्त्या एषा मा भेदीति मित्राय परिददाति ३

04 य उखाङ् करोति …{Loading}…
य उखां करोति सो ऽषाढामेतस्या एव मृदस्तूष्णीं चतुरश्रां त्र्यालिखितामिष्टकाम् ४

05 वसवस्त्वा धूपयन्तु गायत्रेण …{Loading}…
वसवस्त्वा धूपयन्तु गायत्रेण च्छन्दसेति सप्तभिरश्वशकेनोखां धूपयति ५

06 वृष्णो अश्वस्य शकेनेत्येके …{Loading}…
वृष्णो अश्वस्य शकेनेत्येके ६
वृष्णो अश्वस्य शकेनेत्येके ६
07 गार्हपत्याद्धूपनपचने भवतः …{Loading}…
गार्हपत्याद्धूपनपचने भवतः ७
थिते
- The fumigation and baking take place on the fire taken from the Gārhapatya.
गार्हपत्याद्धूपनपचने भवतः ७
08 अदितिस्त्वा देवीत्यग्रेण गार्हपत्यमवटङ् …{Loading}…
अदितिस्त्वा देवीत्यग्रेण गार्हपत्यमवटं खात्वा लोहितपचनीयैः सम्भारैरवस्तीर्य देवानां त्वा पत्नीरिति तस्मिन्नुखामवदधाति ८

09 तूष्णीमषाढामन्ववधाय लोहितपचनीयैः सम्भारैः …{Loading}…
तूष्णीमषाढामन्ववधाय लोहितपचनीयैः सम्भारैः प्रच्छाद्य धिषणास्त्वा देवीरिति चतुर्भिरुखायामग्निमभ्यादधाति ९

10 मित्रैतामुखाम् पचेति पच्यमानान् …{Loading}…
मित्रैतामुखां पचेति पच्यमानां तिसृभिर्मैत्रीभिरुपचरति १०

11 पक्वान् देवस्त्वा सवितोद्वपत्वित्युद्वास्यापद्यमाना …{Loading}…
पक्वां देवस्त्वा सवितोद्वपत्वित्युद्वास्यापद्यमाना पृथिव्याशा दिश आ पृणेत्युत्तरतः सिकतासु प्रतिष्ठाप्य मित्रैतां तु उखां परिददाम्यभित्त्या एषा मा भेदीति मित्राय परिददाति ११

12 तूष्णीमषाढामुद्वास्य …{Loading}…
तूष्णीमषाढामुद्वास्य १२
थिते
- Having removed the (baked) Asādhā (brick) silently (without any formula) from the fire,
तूष्णीमषाढामुद्वास्य १२
इति पञ्चमी कण्डिका