०४

01 वि पाजसेति विस्रस्यापो ...{Loading}...

वि पाजसेति विस्रस्यापो हि ष्ठा मयोभुव इति तिसृभिरप उपसृज्य मित्रः संसृज्य पृथिवीमिति द्वाभ्यां संसर्जनीयैः संसृजति । अर्मकपालैः पिष्टैर्वेण्वङ्गारैर्व्रीहितुषैः पलाशकषायेण शर्कराभिः पिष्टाभिः कृष्णाजिनलोमभिरजलोमभिरिति १

02 यच्चान्यद्दृढार्थ उपार्धम् मन्यते ...{Loading}...

यच्चान्यद्दृढार्थ उपार्धं मन्यते २

03 रुद्राः सम्भृत्य पृथिवीमिति ...{Loading}...

रुद्राः सम्भृत्य पृथिवीमिति मृदं सङ्क्षिप्य संसृष्टां वसुभिरिति तिसृभिः कर्त्रे प्रयच्छति ३

04 मखस्य शिरोऽसीति पिण्डङ् ...{Loading}...

मखस्य शिरोऽसीति पिण्डं कृत्वा यज्ञस्य पदे स्थ इति कृष्णाजिनं पुष्करपर्णं चाभिमृशति मृदि वाङ्गुष्ठाभ्यां निगृह्णाति ४

05 वसवस्त्वा कृण्वन्तु गायत्रेण ...{Loading}...

वसवस्त्वा कृण्वन्तु गायत्रेण च्छन्दसेति चतुर्भिर्महिष्युखां करोति बहुभार्यस्य । अध्वर्युरेकभार्यस्य ५

06 क्रियमाणामेतैरेव यजमानोऽनुमन्त्रयते ...{Loading}...

क्रियमाणामेतैरेव यजमानोऽनुमन्त्रयते ६

07 त्र्युद्धिम् पञ्चोद्धिमपरिमितोद्धिं वा ...{Loading}...

त्र्युद्धिं पञ्चोद्धिमपरिमितोद्धिं वा । चतुरश्रां परिमण्डलां वा । प्रादेशमात्रीमूर्ध्वप्रमाणेनारत्निमात्रीं तिर्यक्प्रमाणेन व्यायाममात्रीं समन्तपरिमाणेन । अपरिमितां वा ७

08 पञ्चप्रादेशामिषुमात्रीं वा यदि ...{Loading}...

पञ्चप्रादेशामिषुमात्रीं वा यदि पञ्च पशवो भवन्तीति वाजसनेयकम् ८

09 कुर्वंश्चतस्रोऽश्रीः प्रतिदिशमुन्नयति ...{Loading}...

कुर्वंश्चतस्रोऽश्रीः प्रतिदिशमुन्नयति ९

10 अष्टाश्रिं वा ...{Loading}...

अष्टाश्रिं वा १०

11 नवाश्रिमभिचरतः कुर्यात् द्व्यङ्गुले ...{Loading}...

नवाश्रिमभिचरतः कुर्यात् । द्व्यङ्गुले बिलादधस्तात् ११

इति चतुर्थी कण्डिका


  1. TS IV.1.5.g. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS IV.1.5.h-k. ↩︎ ↩︎ ↩︎

  3. Cf. MS III.1.7. ↩︎ ↩︎

  4. Cf. ŚB VI.5.1.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. Cf. KS XXIX.6. ↩︎