०३

01 जिघर्म्यग्निमा त्वा जिघर्मीति ...{Loading}...

जिघर्म्यग्निमा त्वा जिघर्मीति मनस्वतीभ्यामेकामाहुतिं हिरण्ये हुत्वापादाय हिरण्यं परि वाजपतिः कविरग्निरिति तिसृभिरभ्रिया मृत्खनं परिलिखति । बाह्याम्बाह्यां वर्षीयसीम् १

02 देवस्य त्वा सवितुः ...{Loading}...

देवस्य त्वा सवितुः प्रसव इति द्वाभ्यां खनति २

03 अपाम् पृष्ठमसीति पुष्करपर्णमाहृत्यैतयैव ...{Loading}...

अपां पृष्ठमसीति पुष्करपर्णमाहृत्यैतयैव विवेष्ट्य शर्म च स्थो वर्म च स्थ इति द्वाभ्यामुत्तरेण मृत्खनं कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणाति । उपरिष्टात्पुष्करपर्णमुत्तानम् ३

04 पुरीष्योऽसि विश्वभरा इति ...{Loading}...

पुरीष्योऽसि विश्वभरा इति मृत्खनमभिमन्त्र्य त्वामग्ने पुष्करादधीति कृष्णाजिने पुष्करपर्णे च सम्भरति चतसृभिस्तिसृभिर्वा । गायत्रीभिर्ब्राह्मणस्य । त्रिष्टुग्भी राजन्यस्य । जगतीभिर्वैश्यस्य ४

05 यङ् कामयेत वसीयान्स्यादित्युभयीभिस्तस्य ...{Loading}...

यं कामयेत वसीयान्स्यादित्युभयीभिस्तस्य सम्भरेत् ५

06 अष्टाभिः सम्भरति ...{Loading}...

अष्टाभिः सम्भरति ६

07 जनिष्वा हि जेन्य ...{Loading}...

जनिष्वा हि जेन्य इति मृदमभिमृश्य मृत्खनं संलोभ्य सं ते वायुरिति मृखनेऽप आनीय समुद्यम्य कृष्णाजिनस्यान्तान्सुजातो ज्योतिषा सहेति क्षौमेण मौञ्जेनार्कमयेण वा दाम्नोपनह्यति ७

08 उदु तिष्ठ स्वध्वरोर्ध्व ...{Loading}...

उदु तिष्ठ स्वध्वरोर्ध्व ऊ षु ण ऊतय इति सावित्रीभ्यामुत्तिष्ठति ८

09 स जातो गर्भो ...{Loading}...

स जातो गर्भो असीति हरति ९

10 स्थिरो भव वीड्वङ्ग ...{Loading}...

स्थिरो भव वीड्वङ्ग इति गर्दभस्य पृष्ठ आदधाति १०

11 शिवो भव प्रजाभ्य ...{Loading}...

शिवो भव प्रजाभ्य इत्याहितमभिमन्त्रयते ११

12 प्रैतु वाजी कनिक्रददिति ...{Loading}...

प्रैतु वाजी कनिक्रददिति तिसृभिरत्वरमाणाः प्रत्यायन्ति १२

13 अग्निम् पुरीष्यमङ्गिरस्वद्भराम इति ...{Loading}...

अग्निं पुरीष्यमङ्गिरस्वद्भराम इति येन द्वेष्येण सङ्गच्छते तमभिमन्त्रयते । अपश्यन्निर्दिशति १३

14 उत्तरेण विहारम् परिश्रित ...{Loading}...

उत्तरेण विहारं परिश्रित ओषधयः प्रति गृह्णीताग्निमेतमिति द्वाभ्यामोषधीषु पुष्पवतीषु फलवतीषूपावहरति १४

इति तृतीया कण्डिका


  1. Cf. TS V.1.3.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS. IV.1.2.r and s. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS IV.1.2.t-w. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. Cf. ŚB VI.3.3.25. ↩︎ ↩︎ ↩︎ ↩︎

  5. Cf. TS V.1.4.3. ↩︎ ↩︎ ↩︎

  6. ŚB VI.4.1.6. ↩︎ ↩︎ ↩︎

  7. TS IV.1.3.d-e. ↩︎