०२

01 इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीं रशनामादाय प्रतूर्तं ...{Loading}...

इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीं रशनामादाय प्रतूर्तं वाजिन्ना द्रवेत्यश्वमभिदधाति १

02 तूष्णीङ् गर्दभस्यादाय युञ्जाथां ...{Loading}...

तूष्णीं गर्दभस्यादाय युञ्जाथां रासभं युवमिति गर्दभम् २

03 योगेयोगे तवस्तरमिति तिसृभिरश्वप्रथमा ...{Loading}...

योगेयोगे तवस्तरमिति तिसृभिरश्वप्रथमा अभिप्रव्रजन्ति यत्र मृदं खनिष्यन्तः स्युः ३

04 यदि कामयेत पापवस्यसं ...{Loading}...

यदि कामयेत पापवस्यसं स्यादिति गर्दभप्रथमा गच्छेयुः ४

05 अग्निम् पुरीष्यमङ्गिरस्वदच्छेहीति जपति ...{Loading}...

अग्निं पुरीष्यमङ्गिरस्वदच्छेहीति जपति ५

06 अग्निम् पुरीष्यमङ्गिरस्वदच्छेम इति ...{Loading}...

अग्निं पुरीष्यमङ्गिरस्वदच्छेम इति येन द्वेष्येण सङ्गच्छते तमभिमन्त्रयते । अपश्यन्निर्दिशति ६

07 अग्निम् पुरीष्यमङ्गिरस्वद्भरिष्याम इति ...{Loading}...

अग्निं पुरीष्यमङ्गिरस्वद्भरिष्याम इति वल्मीकवपाम् । आ सूर्यस्योदेतोस्तामुद्धत्योपतिष्ठते ७

08 अन्वाङ्ग्नरुषसामग्रमख्यदिति वल्मीकवपायाः प्रक्रामति ...{Loading}...

अन्वाङ्ग्नरुषसामग्रमख्यदिति वल्मीकवपायाः प्रक्रामति ८

09 आगत्य वाज्यध्वन आक्रम्य ...{Loading}...

आगत्य वाज्यध्वन आक्रम्य वाजिन्पृथिवीमिति द्वाभ्यां मृत्खनमश्वमाक्रमय्य द्यौस्ते पृष्ठमित्यश्वस्य पृष्ठं सम्मार्ष्टि ९

10 अभि तिष्ठ पृतन्यतोऽधरे ...{Loading}...

अभि तिष्ठ पृतन्यतोऽधरे सन्तु शत्रवः । इन्द्र इव वृत्रहा तिष्ठापः क्षेत्राणि सञ्जयन् । अभिष्ठितोऽसीति यं द्वेष्टि तमधस्पदमश्वस्य मनसा ध्यायति १०

11 उत्क्रामोदक्रामीदिति द्वाभ्याम् मृत्खनादुदञ्चमश्वमुत्क्रमय्यापो ...{Loading}...

उत्क्रामोदक्रामीदिति द्वाभ्यां मृत्खनादुदञ्चमश्वमुत्क्रमय्यापो देवीरुपसृजेत्यश्वस्य पदेऽप उपसृज्य पदे हिरण्यं निधाय ११

इति द्वितीया कण्डिका


  1. TS IV.1.2.a. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.1.2.d-f. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. The clay is to be used for making a fire-pan. ↩︎ ↩︎ ↩︎

  4. TS V.1.3.1; cp ŚB VI.3.3.22. ↩︎

  5. Cf. TS V.1.3.2. The sentence is completed in the next Sūtra. ↩︎