01 इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीं रशनामादाय प्रतूर्तं …{Loading}…
इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीं रशनामादाय प्रतूर्तं वाजिन्ना द्रवेत्यश्वमभिदधाति १
इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीं रशनामादाय प्रतूर्तं वाजिन्ना द्रवेत्यश्वमभिदधाति १
02 तूष्णीङ् गर्दभस्यादाय युञ्जाथां …{Loading}…
तूष्णीं गर्दभस्यादाय युञ्जाथां रासभं युवमिति गर्दभम् २
थिते
- Having taken (the string) of the ass silently (i.e. with out uttering any formula), he binds the ass with yuñjāthāṁ rāsabham….1
तूष्णीं गर्दभस्यादाय युञ्जाथां रासभं युवमिति गर्दभम् २
03 योगेयोगे तवस्तरमिति तिसृभिरश्वप्रथमा …{Loading}…
योगेयोगे तवस्तरमिति तिसृभिरश्वप्रथमा अभिप्रव्रजन्ति यत्र मृदं खनिष्यन्तः स्युः ३
योगेयोगे तवस्तरमिति तिसृभिरश्वप्रथमा अभिप्रव्रजन्ति यत्र मृदं खनिष्यन्तः स्युः ३
04 यदि कामयेत पापवस्यसं …{Loading}…
यदि कामयेत पापवस्यसं स्यादिति गर्दभप्रथमा गच्छेयुः ४
थिते
- If he desires that (the sacrificer) should be worse, then they should go having kept ass in the front.1
यदि कामयेत पापवस्यसं स्यादिति गर्दभप्रथमा गच्छेयुः ४
05 अग्निम् पुरीष्यमङ्गिरस्वदच्छेहीति जपति …{Loading}…
अग्निं पुरीष्यमङ्गिरस्वदच्छेहीति जपति ५
थिते
- At the time of going he mutters agniṁ puriṣyam aṅgirasvadacchehi.1
अग्निं पुरीष्यमङ्गिरस्वदच्छेहीति जपति ५
06 अग्निम् पुरीष्यमङ्गिरस्वदच्छेम इति …{Loading}…
अग्निं पुरीष्यमङ्गिरस्वदच्छेम इति येन द्वेष्येण सङ्गच्छते तमभिमन्त्रयते । अपश्यन्निर्दिशति ६
थिते
- He addresses the hateful person (enemy) whom he meets while going, with agniṁ purīṣyam angirasvadacchema.1 He indicates him if he is not looking at him.
अग्निं पुरीष्यमङ्गिरस्वदच्छेम इति येन द्वेष्येण सङ्गच्छते तमभिमन्त्रयते । अपश्यन्निर्दिशति ६
07 अग्निम् पुरीष्यमङ्गिरस्वद्भरिष्याम इति …{Loading}…
अग्निं पुरीष्यमङ्गिरस्वद्भरिष्याम इति वल्मीकवपाम् । आ सूर्यस्योदेतोस्तामुद्धत्योपतिष्ठते ७
थिते
- Having dug out a fossilied anthill before the sunrise, he stands near it praying with agniṁ purīṣyam…1
अग्निं पुरीष्यमङ्गिरस्वद्भरिष्याम इति वल्मीकवपाम् । आ सूर्यस्योदेतोस्तामुद्धत्योपतिष्ठते ७
08 अन्वाङ्ग्नरुषसामग्रमख्यदिति वल्मीकवपायाः प्रक्रामति …{Loading}…
अन्वाङ्ग्नरुषसामग्रमख्यदिति वल्मीकवपायाः प्रक्रामति ८
थिते
- He steps on the fossilized anthill with anvagniruṣasāmagramakhyat.1
अन्वाङ्ग्नरुषसामग्रमख्यदिति वल्मीकवपायाः प्रक्रामति ८
09 आगत्य वाज्यध्वन आक्रम्य …{Loading}…
आगत्य वाज्यध्वन आक्रम्य वाजिन्पृथिवीमिति द्वाभ्यां मृत्खनमश्वमाक्रमय्य द्यौस्ते पृष्ठमित्यश्वस्य पृष्ठं सम्मार्ष्टि ९
आगत्य वाज्यध्वन आक्रम्य वाजिन्पृथिवीमिति द्वाभ्यां मृत्खनमश्वमाक्रमय्य द्यौस्ते पृष्ठमित्यश्वस्य पृष्ठं सम्मार्ष्टि ९
10 अभि तिष्ठ पृतन्यतोऽधरे …{Loading}…
अभि तिष्ठ पृतन्यतोऽधरे सन्तु शत्रवः । इन्द्र इव वृत्रहा तिष्ठापः क्षेत्राणि सञ्जयन् । अभिष्ठितोऽसीति यं द्वेष्टि तमधस्पदमश्वस्य मनसा ध्यायति १०
थिते
- With abhi tiṣṭha pr̥tanyataḥ..1 he thinks about him whom he hates, to be under the foot of the horse.
अभि तिष्ठ पृतन्यतोऽधरे सन्तु शत्रवः । इन्द्र इव वृत्रहा तिष्ठापः क्षेत्राणि सञ्जयन् । अभिष्ठितोऽसीति यं द्वेष्टि तमधस्पदमश्वस्य मनसा ध्यायति १०
11 उत्क्रामोदक्रामीदिति द्वाभ्याम् मृत्खनादुदञ्चमश्वमुत्क्रमय्यापो …{Loading}…
उत्क्रामोदक्रामीदिति द्वाभ्यां मृत्खनादुदञ्चमश्वमुत्क्रमय्यापो देवीरुपसृजेत्यश्वस्य पदेऽप उपसृज्य पदे हिरण्यं निधाय ११
उत्क्रामोदक्रामीदिति द्वाभ्यां मृत्खनादुदञ्चमश्वमुत्क्रमय्यापो देवीरुपसृजेत्यश्वस्य पदेऽप उपसृज्य पदे हिरण्यं निधाय ११
इति द्वितीया कण्डिका