०१

01 अग्निञ् चेष्यमाणोऽमावास्यायाम् पौर्णमास्यामेकाष्टकायां ...{Loading}...

अग्निं चेष्यमाणोऽमावास्यायां पौर्णमास्यामेकाष्टकायां वोखां सम्भरति १

02 अषाढामधिकृत्यैके समामनन्ति ...{Loading}...

अषाढामधिकृत्यैके समामनन्ति २

03 बृहस्पतिपुरोहिता देवा देवानान् ...{Loading}...

बृहस्पतिपुरोहिता देवा देवानां देवा देवाः प्रथमजा देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशास्त्रिस्त्रयस्त्रिंशा अनु व आरभ इदं शकेयं यदिदं करोमि ते मावत ते मा जिन्वतास्मिन्ब्रह्मन्नस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मन्नस्यां देवहूत्यामिति चतुर्गृहीतं जुहोति ३

04 जुहूं स्रुवञ् च ...{Loading}...

जुहूं स्रुवं च सम्मृज्य जुह्वामष्टगृहीतं गृहीत्वा युञ्जानः प्रथमं मन इति यजुरष्टमाभिरृग्भिरेकामाहुतिं जुहोत्यन्तर्वेद्यूर्ध्वस्तिष्ठन् ४

05 यङ् कामयेत पापीयान्स्यादित्येकैकन् ...{Loading}...

यं कामयेत पापीयान्स्यादित्येकैकं तस्य जुहुयाज्जिह्मस्तिष्ठन् ५

06 यदि कामयेत च्छन्दांसि ...{Loading}...

यदि कामयेत च्छन्दांसि यज्ञयशसेनार्पयेयमित्युक्तम् ६

07 ऋचा स्तोमं समर्धयेत्यपरञ् ...{Loading}...

ऋचा स्तोमं समर्धयेत्यपरं चतुर्गृहीतं गृहीत्वा देवस्य त्वा सवितुः प्रसव इति चतुर्भिरभ्रिमादत्ते वैणवीं कल्माषीं सुषिरामसुषिरां वोभयतःक्ष्णूमन्यतरतःक्ष्णूं वा प्रादेशमात्रीमरत्निमात्रीं व्यायाममात्रीमपरिमितां वा । खादिरीं पालाशीमौदुम्बरीमर्कमयीं कार्ष्मर्यमयीं वैकङ्कतीं शमीमयीं वा यो वा यज्ञियो वृक्षः फलग्रहिः ७

इति प्रथमा कण्डिका


  1. Cf. ŚB VI.2.2.23. Ekāṣṭakā means the eighth day in the black fortnight in the month of Māgha. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. KS XVIII.19. ↩︎ ↩︎

  3. TS IV.1.1.k-n. ↩︎

  4. For all these qualifications cp. TS V.1.1.4; MS III.1.2.; KS XIX.1; ŚB VI.3.1.3ff ↩︎