२१

01 संवत्सरमेतद्व्रतञ् चरेत् एतस्मिन्नेव …{Loading}…

संवत्सरमेतद्व्रतं चरेत् । एतस्मिन्नेव संवत्सरेऽधीयीत १

02 यद्येतस्मिन्संवत्सरे नाधीयीत यावदध्ययनमेतद्व्रतञ् …{Loading}…

यद्येतस्मिन्संवत्सरे नाधीयीत यावदध्ययनमेतद्व्रतं चरेत् २

03 संवत्सरे पर्यवेते खिले …{Loading}…

संवत्सरे पर्यवेते खिले ऽच्छदिर्दर्शेऽग्निमुपसमाधाय सम्परिस्तीर्य पूर्ववद्विसृज्य मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वावृत्तैर्मन्त्रैः समिध आधायावृत्तैर्देवता उपस्थायोत्तमेनानुवाकेन शान्तिं कृत्वा गुरवे वरं दत्त्वा केशश्मश्रु वापयते ३

04 अथास्य स्वाध्यायमधि नित्ये …{Loading}…

अथास्य स्वाध्यायमधि नित्ये ४

05 नानुत्सृष्टाध्यायोऽधीयीत …{Loading}…

नानुत्सृष्टाध्यायोऽधीयीत ५

06 न नक्तम् …{Loading}…

न नक्तम् ६

07 नातिदोषमब्रह्मचर्यमापद्य न मांसङ् …{Loading}…

नातिदोषमब्रह्मचर्यमापद्य न मांसं खादित्वा न केशश्मश्रुलोमनखानि वापयित्वा न केशान्प्रसाध्य न दतः प्राक्षाल्य ७

08 नाक्तो नाभ्यक्तो नार्द्रो …{Loading}…

नाक्तो नाभ्यक्तो नार्द्रो नार्द्रे नानववृष्टे नाभ्रे न छायायां न पर्यावृत्त आदित्ये न हरितयवान्प्रेक्षमाणो न ग्राम्यस्य पशोरन्ते नारण्यस्य नापामन्ते ८

09 नाशृतमुत्पतितन् न लोहितन् …{Loading}…

नाशृतमुत्पतितं न लोहितं दृष्ट्वा । न हर्म्याणि न शरीराणि न शवं नापपात्रम् ९

10 अध्येष्यमाणः प्राचीमुदीचीं वा …{Loading}…

अध्येष्यमाणः प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय सम्परिस्तीर्य मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वापरेणाग्निं दर्भेष्वासीनो दर्भान्दूर्वा वा धारयमाणः पराचीनमधीयीत १०

11 वरं वा दत्त्वोपासने …{Loading}…

वरं वा दत्त्वोपासने ११

12 अध्येष्यमाणो नान्या वाचो …{Loading}…

अध्येष्यमाणो नान्या वाचो वदेत् १२

13 यत्र क्वचाशान्तिकृतम् पश्येत्पुनरेव …{Loading}…

यत्र क्वचाशान्तिकृतं पश्येत्पुनरेव शान्तिं कृत्वाधीयीत १३

14 अधीत्य चोत्तमेन …{Loading}…

अधीत्य चोत्तमेन १४

15 न प्रवर्ग्यायोपनिष्क्रम्याप्रविश्यान्यदधीयीतान्यदधीयीत …{Loading}…

न प्रवर्ग्यायोपनिष्क्रम्याप्रविश्यान्यदधीयीतान्यदधीयीत १५

इत्येकविंशी कण्डिका इति षष्ठः पटलः इति पञ्चदशः प्रश्नः


  1. See also TA I.32.1. ↩︎ ↩︎ ↩︎