२०

01 अवान्तरदीक्षां व्याख्यास्यामः …{Loading}…

अवान्तरदीक्षां व्याख्यास्यामः १

02 पर्वण्युदगयन आपूर्यमाणपक्षस्य वा …{Loading}…

पर्वण्युदगयन आपूर्यमाणपक्षस्य वा पुण्ये नक्षत्रे केशश्मश्रु वापयित्वापराह्णे प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय सम्परिस्तीर्य पूर्ववदुपाकृत्य मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वा चतस्र औदुम्बरीः समिधो घृतान्वक्ता अभ्यादधाति पृथिवी समिदित्येतैर्मन्त्रैः २

03 अथ देवता उपतिष्ठतेऽग्ने …{Loading}…

अथ देवता उपतिष्ठतेऽग्ने व्रतपते व्रतं चरिष्यामीति ३

04 अथैनं सर्वेषामनुवाकानाम् प्रभृतीरभिव्याहारयति …{Loading}…

अथैनं सर्वेषामनुवाकानां प्रभृतीरभिव्याहारयति । प्रथमोत्तमयोर्वा ४

05 उत्तमेनानुवाकेन शान्तिङ् कृत्वा …{Loading}…

उत्तमेनानुवाकेन शान्तिं कृत्वा ततः सम्मीलयति वाचं च यच्छति ५

06 अथास्याहतेन वाससा प्रदक्षिणं …{Loading}…

अथास्याहतेन वाससा प्रदक्षिणं सम्मुखं शिरो वेष्टयित्वास्तमिते ग्रामं प्रपादयति ६

07 वाग्यत एतां रात्रिन् …{Loading}…

वाग्यत एतां रात्रिं तिष्ठत्यास्ते वा ७

08 श्वो भूते खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय …{Loading}…

श्वो भूते खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय सम्परिस्तीर्याथास्य षट्तयमभिविदर्शयति । सप्ततयमित्येके । अग्निमादित्यमुदकुम्भमश्मानं वत्सं महानग्नाम् । हिरण्यं सप्तमम् ८

09 अपि वादितस्त्रीणि विदर्शयित्वा …{Loading}…

अपि वादितस्त्रीणि विदर्शयित्वा यथोपपातमितराणि ९

10 अत्रैतद्वासो गुरवे दत्त्वा …{Loading}…

अत्रैतद्वासो गुरवे दत्त्वा वयः सुपर्णा इत्यादित्यमुपतिष्ठते १०

11 अथास्य ब्रह्मचर्यमधि …{Loading}…

अथास्य ब्रह्मचर्यमधि ११

12 नित्ये …{Loading}…

नित्ये १२

13 न नक्तम् भुञ्जीत …{Loading}…

न नक्तं भुञ्जीत १३

14 यदि भुञ्जीतापज्वलितम् …{Loading}…

यदि भुञ्जीतापज्वलितम् १४

15 न मृन्मयम् प्रति …{Loading}…

न मृन्मयं प्रति धयीत १५

16 न स्त्रिया न …{Loading}…

न स्त्रिया न शूद्रेण सम्भाषेत १६

17 नोपानहौ न छत्त्रम् …{Loading}…

नोपानहौ न छत्त्रम् १७

18 न चक्रीवदारोहेत् …{Loading}…

न चक्रीवदारोहेत् १८

19 न गतासुमीक्षेत् न …{Loading}…

न गतासुमीक्षेत् । न स्नायात् १९

20 अष्टम्यः पर्वाणि चोपवसेद्वाग्यतः …{Loading}…

अष्टम्यः पर्वाणि चोपवसेद्वाग्यतः २०

21 न च संविशेत् …{Loading}…

न च संविशेत् २१

इति विंशी कण्डिका


  1. This intermediary consecration is different from the one dealt with in XI.1.13. This consecration is meant for one who is going to study Pravargya-text. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎