१९

01 व्याख्याता घोरास्तन्वोऽरण्येऽनुवाक्यो गण ...{Loading}...

व्याख्याता घोरास्तन्वोऽरण्येऽनुवाक्यो गण उत्तरौ चानुवाकौ १

02 यदि घर्मेण चरस्त्वेकसृक ...{Loading}...

यदि घर्मेण चरस्त्वेकसृक उत्तिष्ठेद्वि गा इन्द्र विचरन्स्पाशयस्वेत्येतमभिमन्त्र्योभयत आदीप्योल्मुकमस्मै प्रत्यस्येदग्ने अग्निना संवदस्वेति २

03 अथैनमुपतिष्ठन्ते सकृत्ते अग्ने ...{Loading}...

अथैनमुपतिष्ठन्ते सकृत्ते अग्ने नम इत्यनुवाकशेषेण ३

04 अथ यदि गृध्रः ...{Loading}...

अथ यदि गृध्रः सलावृकी भयेडको दीर्घमुख्युलूको भूतोपसृष्टः शकुनिर्वा वदेदसृङ्मुखः । यदेतत् । यदीषितः । दीर्घमुखि । इत्थादुलूकः । यदेतद्भूतान्यन्वाविश्य । प्रसार्य सक्थ्यावित्येतैर्यथालिङ्गमभिमन्त्र्योल्मुकप्रत्यसनादि समानम् ४

05 यदि घर्मधुक्क्रिमिणा स्यादत्रिणा ...{Loading}...

यदि घर्मधुक्क्रिमिणा स्यादत्रिणा त्वा क्रिमे हन्मीत्यनुवाकेनास्याः क्रिमीन्हन्यात् ५

06 अपि वा सार्वत्रिकमेतत्प्रायश्चित्तङ् ...{Loading}...

अपि वा सार्वत्रिकमेतत्प्रायश्चित्तं क्रियेत ६

07 यमभिचरेत्तस्य लोहितमवदानङ् कृत्वाहरावद्य ...{Loading}...

यमभिचरेत्तस्य लोहितमवदानं कृत्वाहरावद्य शृतस्येत्यनुवाकेन जुहुयात् ७

08 यमभिव्याहरिष्यन्स्यात्त्रिरात्रावरम् ब्रह्मचर्यञ् चरित्वा ...{Loading}...

यमभिव्याहरिष्यन्स्यात्त्रिरात्रावरं ब्रह्मचर्यं चरित्वा गत्वैनमभिव्याहरेद्ब्रह्मणा त्वा शपामीत्यनुवाकेन ८

09 यन् द्विष्यात्तस्य गोष्ठे ...{Loading}...

यं द्विष्यात्तस्य गोष्ठे स्वजमोषधीं निखमेदुत्तुद शिमिजावरीत्यनुवाकेन ९

10 अपि वा गोष्ठस्यैव ...{Loading}...

अपि वा गोष्ठस्यैव दक्षिणां द्वार्बाहुमेतेनैव विचालयेत् १०

11 यद्युद्गाता पुरुषसाम न ...{Loading}...

यद्युद्गाता पुरुषसाम न गायेदध्वर्युरेवैतेन साम्नोद्गायेद्भूर्भुवः सुवरित्यनुवाकेन ११

इत्येकोनविंशी कण्डिका इति पञ्चमः पटलः


  1. i.e. their applicaiton has been already mentioned. Out of the six sections of TĀ (IV.22-27) the first two are mentioned in ApśŚS V 15.4: V.17.8; the next two are mentioned in XVII. 16.15-16 and XVIII.12.12; the fifth (TĀ IV.26). is mentioned in XVI L.17 7 and the last i.e. the sixth (TĀ IV.27) in XIV.14.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TĀ IV.28.2. ↩︎ ↩︎ ↩︎