१८

01 यदि घर्मधुग्दोहकाले नागच्छेदन्यान् ...{Loading}...

यदि घर्मधुग्दोहकाले नागच्छेदन्यां दुग्ध्वा प्रवृज्य तां सुत्यायां ब्राह्मणाय दद्याद्यमनभ्यागमिष्यन्स्यात् १

02 यदि घर्मधुगि पयो ...{Loading}...

यदि घर्मधुगि पयो न स्याद्दृतेश्चतुर्थं पादं स्तनं कृत्वा पिन्वयेत् २

03 यदि दधि दुहीत ...{Loading}...

यदि दधि दुहीत बार्हस्पत्यं शंसेत् ३

04 यदि पय आश्विनं ...{Loading}...

यदि पय आश्विनं सोदर्कम् ४

05 यद्यु वै लोहितन् ...{Loading}...

यद्यु वै लोहितं दुहीत रौद्र्यचो जुहुयात् ५

06 यदि नश्येद्धातुरृग्भ्याञ् जुहुयात् ...{Loading}...

यदि नश्येद्धातुरृग्भ्यां जुहुयात् ६

07 यद्यस्यै वत्सो वायोर्नियुत्वत ...{Loading}...

यद्यस्यै वत्सो वायोर्नियुत्वत ऋचा जुहुयात् ७

08 यद्यमेध्यमयज्ञियं वाभिनिषीदेदाग्नेय्यर्चा जुहुयात् ...{Loading}...

यद्यमेध्यमयज्ञियं वाभिनिषीदेदाग्नेय्यर्चा जुहुयात् । आग्निवारुण्येत्येके ८

09 यद्येनां वयोऽभिविक्षिपेदाश्विन्यर्चा जुहुयात् ...{Loading}...

यद्येनां वयोऽभिविक्षिपेदाश्विन्यर्चा जुहुयात् ९

10 यद्युद्वा पतेत्सं वा ...{Loading}...

यद्युद्वा पतेत्सं वा विजेत शार्दूलो वा हन्यादर्कक्षीरमजाक्षीर आश्चोत्य तेन प्रेचरेत् १०

11 सुत्यायाम् प्रवृञ्जनमेके समामनन्ति ...{Loading}...

सुत्यायां प्रवृञ्जनमेके समामनन्ति ११

12 तत्र मीमांसा ...{Loading}...

तत्र मीमांसा १२

13 यदा पुरस्तादरुणा स्यादथ ...{Loading}...

यदा पुरस्तादरुणा स्यादथ प्रवृज्यः । उपकाश उपव्युषं समयाविषित उदितानुदित उदिते वा । प्रातः सङ्गवे माध्यन्दिने वा पवमाने स्तुते १३

14 आग्नीध्रागारे प्रवृज्यः ...{Loading}...

आग्नीध्रागारे प्रवृज्यः १४

15 सकृदेव प्रवृज्य इति ...{Loading}...

सकृदेव प्रवृज्य इति विज्ञायते १५

16 तान्येतान्यौपसदैः प्रवृञ्जनैर्विकल्पेरन् ...{Loading}...

तान्येतान्यौपसदैः प्रवृञ्जनैर्विकल्पेरन् १६

17 दधिघर्मम् भक्षयन्ति भूर्भुवः ...{Loading}...

दधिघर्मं भक्षयन्ति भूर्भुवः सुवरित्यनुवाकेन १७

इत्यष्टादशी कण्डिका


  1. See XV.4.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS II.5.12.w. ↩︎ ↩︎ ↩︎