१७

01 यदि घर्मः स्कन्देदस्कान्द्यौः ...{Loading}...

यदि घर्मः स्कन्देदस्कान्द्यौः पृथिवीमिति द्वाभ्यामेनमभिमन्त्रयेत १

02 यदि घर्मेण चरत्सु ...{Loading}...

यदि घर्मेण चरत्सु विद्युदापतेद्या पुरस्ताद्विद्युदापतदित्येतैर्यथालिङ्गं जुहुयात् २

03 यदि सर्वतः सर्वा ...{Loading}...

यदि सर्वतः सर्वा जुहुयात् ३

04 प्राणाय स्वाहा पूष्णे ...{Loading}...

प्राणाय स्वाहा पूष्णे स्वाहेत्येतावनुवाकौ घर्मप्रायश्चित्तानि ४

05 घर्मेष्टकामुपदधात्युदस्य शुष्माद्भानुर्नातत्यनुवाकेन कुलायिनीं ...{Loading}...

घर्मेष्टकामुपदधात्युदस्य शुष्माद्भानुर्नातत्यनुवाकेन । कुलायिनीं यास्ते अग्न आर्द्रा योनय इत्यनुवाकेन । ऐडिक्या चित्याध्वर्युरग्निमभिमृशन्त्यग्निरसि वैश्वानरोऽसीत्यनुवाकेन ५

06 भूर्भुवः सुवरिति सर्वप्रायश्चित्तानि ...{Loading}...

भूर्भुवः सुवरिति सर्वप्रायश्चित्तानि ६

07 यदि महावीरः पद्येतोर्ध्व ...{Loading}...

यदि महावीरः पद्येतोर्ध्व ऊ षु ण ऊतय इति द्वाभ्यामेनमुच्छ्रयीत ७

08 यदि भिद्येत विधुन् ...{Loading}...

यदि भिद्येत विधुं दद्राणमिति सन्दध्यात् । ततो यानि दृढार्थे संश्लेषणानि स्युस्तैरेनमभिदिह्याद्यदन्यन्मांसान्माषेभ्यश्च यदृते चिदभिश्रिष इति ८

09 यदि घर्ममतिपरीयुर्न वा ...{Loading}...

यदि घर्ममतिपरीयुर्न वा प्रतिपरीयुः पुनरूर्जा सह रय्येत्येताभ्यामेनं प्रतिपरीयुः ९

10 मा नो घर्म ...{Loading}...

मा नो घर्म व्यथित इत्यष्टौ घर्मे व्यथिते प्रायश्चित्तानि १०

11 अपि वा घर्ममेव ...{Loading}...

अपि वा घर्ममेव व्यथितमेतासां चतसृभिरभिमन्त्रयेत ११

12 यदि घर्मेण चरत्स्वादित्योऽस्तमियादपरस्यान् ...{Loading}...

यदि घर्मेण चरत्स्वादित्योऽस्तमियादपरस्यां द्वारि दर्भेण हिरण्यं प्रबध्योद्वयं तमसस्परीत्युपस्थायोदु त्यं चित्रमिति द्वाभ्यां गार्हपत्ये हुत्वा प्रवृज्य श्वो भूते वयः सुपर्णा इत्यादित्यमुपतिष्ठन्ते १२

इति सप्तदशी कण्डिका


  1. TĀ IV. 13.1-2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TĀ IV.16. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TĀ IV.18. ↩︎ ↩︎

  4. See XVII. 11.3. The meaning of the word aiḍiki is not clear. ↩︎ ↩︎

  5. TĀ IV.19. ↩︎