१६

01 उत्तरवेद्यामुद्वासयेत्तेजस्कामस्य उत्तरवेद्यामन्नाद्यकामस्य ...{Loading}...

उत्तरवेद्यामुद्वासयेत्तेजस्कामस्य । उत्तरवेद्यामन्नाद्यकामस्य १

02 परो वा पश्चाद्वोद्वासयेत् ...{Loading}...

परो वा पश्चाद्वोद्वासयेत् । अपां मध्य उद्वासयेत् । नदिद्वीप उद्वासयेत् २

03 यदि नदिद्वीप उद्वासयेन्न ...{Loading}...

यदि नदिद्वीप उद्वासयेन्न परिषिञ्चेत् ३

04 यन् द्विष्याद्यत्र स ...{Loading}...

यं द्विष्याद्यत्र स स्यात्तस्यां दिश्यौदुम्बर्यां शाखायामुद्वासयेत् । ऊर्ग्वा उदुम्बरोऽन्नं प्राणः शुग्घर्मः । इदमहमुष्यामुष्यायणस्य शुचा प्राणमपिदहामीति शुचैवास्य प्राणमपिदहति । ताजगार्तिमार्छतीति विज्ञायते ४

05 यत्र दर्भा उपदीकसन्तताः ...{Loading}...

यत्र दर्भा उपदीकसन्तताः स्युस्तदुद्वासयेद्वृष्टिकामस्य ५

06 उत्तरवेद्यान् नित्यङ् कल्पम् ...{Loading}...

उत्तरवेद्यां नित्यं कल्पं ब्रुवते ६

07 नैनमुद्वासितं वयांसि पर्यासीरन्नाग्नेः ...{Loading}...

नैनमुद्वासितं वयांसि पर्यासीरन्नाग्नेः प्रणयनात् ७

08 अत्रैके परिषेचनं समामनन्ति ...{Loading}...

अत्रैके परिषेचनं समामनन्ति ८

09 अथैनमुपतिष्ठन्ते रन्तिर्नामासि दिव्यो ...{Loading}...

अथैनमुपतिष्ठन्ते रन्तिर्नामासि दिव्यो गन्धर्व इति ९

10 एतत्त्वन् देव घर्म ...{Loading}...

एतत्त्वं देव घर्म देवो देवानुपागा इत्यभिमन्त्र्येदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावृत्य सुमित्रा न आप ओषधय इति मार्जालीयदेश उच्छिष्टखरे मार्जयित्वोद्वयं तमसस्परीत्यादित्यमुपस्थायोदु त्यं चित्रमिति द्वाभ्यां गार्हपत्ये जुहोति । उपतिष्ठन्त इत्येके । इममू षु त्यमस्मभ्यमित्याहवनीये जुहोति । उपतिष्ठन्त इत्येके १०

इति षोडशी कण्डिका इति चतुर्थः पटलः


  1. TĀ V.10.2-3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Contrast XV.15.3-4. ↩︎ ↩︎ ↩︎

  3. Cf. ŚB IX.2.1.19. ↩︎ ↩︎

  4. TĀ IV.11.23. ↩︎

  5. TĀ IV. 11.24. ↩︎

  6. Cf. TĀ V.9.11 ↩︎

  7. TĀ IV.11.15. ↩︎