१४

01 दिवस्त्वा परस्पाया इति ...{Loading}...

दिवस्त्वा परस्पाया इति प्रथमेऽभिप्रव्रजन्ति । ब्रह्मणस्त्वा परस्पाया इति द्वितीये । प्राणस्य त्वा परस्पाया इति तृतीये १

02 उत्तरेणोत्तरवेदिं सम्राडासन्दीम् प्रतिष्ठाप्य ...{Loading}...

उत्तरेणोत्तरवेदिं सम्राडासन्दीं प्रतिष्ठाप्य सम्प्रेष्यति प्रस्तोतर्वाषौहरं साम गायेष्टाहोत्रीयं साम गायेति । इष्टाहोत्रीयस्य साम्नो निधनमुपयन्ति । न वार्षाहरस्य २

03 यद्युपरिष्टात्परिषिञ्चेत्तत्र वार्षाहरञ् चोदयेत् ...{Loading}...

यद्युपरिष्टात्परिषिञ्चेत्तत्र वार्षाहरं चोदयेत् ३

04 उदकुम्भमादायाध्वर्युर्वल्गुरसि शंयुधाया इति ...{Loading}...

उदकुम्भमादायाध्वर्युर्वल्गुरसि शंयुधाया इति त्रिः प्रदक्षिणमुत्तरवेदिं परिषिञ्चन्पर्येति । निधाय कुम्भं शं च वक्षि परि च वक्षीति त्रिरपरिषिञ्चन्प्रतिपर्येति ४

05 चतुःस्रक्तिर्नाभिरृतस्येत्युत्तरवेदिमभिमृश्य सदो विश्वायुरित्युत्तरेणोत्तरनाभिङ् ...{Loading}...

चतुःस्रक्तिर्नाभिरृतस्येत्युत्तरवेदिमभिमृश्य सदो विश्वायुरित्युत्तरेणोत्तरनाभिं खरौ न्युप्यानुव्यूहति ५

06 अप द्वेषो अप ...{Loading}...

अप द्वेषो अप हृर इति मार्जालीयदेश उच्छिष्टखरम् ६

07 उत्तरेणोत्तरनाभिङ् ङ्खरे हिरण्यन् ...{Loading}...

उत्तरेणोत्तरनाभिं ङ्खरे हिरण्यं निधाय तस्मिन् प्रचरणीयं महावीरमुपावहरति ७

08 अत्रैवेतरौ पूर्वापरौ दक्षिणोत्तरौ ...{Loading}...

अत्रैवेतरौ पूर्वापरौ दक्षिणोत्तरौ वा ८

09 अत्रैव सर्वम् परिघर्म्यं ...{Loading}...

अत्रैव सर्वं परिघर्म्यं सर्वतः परिमण्डलमादित्यस्य रूपं करोति ९

10 महीनाम् पयोऽसीति महावीरे ...{Loading}...

महीनां पयोऽसीति महावीरे गोपय आनयति । ज्योतिर्भा असि वनस्पतीनामोषधीनां रस इति मधु । वाजिनं त्वा वाजिनोऽवनयाम इति दधि १०

11 एवन् द्वितीयन् तृतीयञ् ...{Loading}...

एवं द्वितीयं तृतीयं च पूरयति ११

12 अपि वाज्यमेव प्रथम ...{Loading}...

अपि वाज्यमेव प्रथम आनयेत् । मधु द्वितीये । दधि तृतीये १२

13 घर्मैतत्तेऽन्नमेतत्पुरीषमिति दध्ना मधुमिश्रेण ...{Loading}...

घर्मैतत्तेऽन्नमेतत्पुरीषमिति दध्ना मधुमिश्रेण पा त्राणि पूरयति यान्यासेचनवन्ति । अभ्युक्षतीतराणि । अरिक्तताया इति विज्ञायते १३

इति चतुर्दशी कण्डिका


  1. Cf. ŚB XIV.3.1.26 where there is a mention of Vārṣāhara-sāman only. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TĀ IV. 11.8. For this Sūtra cf. TĀ V.9.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Not known. ↩︎ ↩︎ ↩︎

  4. Cp. ŚB XIV.3.1.23. ↩︎