१३

01 प्रवर्ग्यमुद्वासयिष्यन्नजामग्नीधे ददाति पष्ठौहीम् …{Loading}…

प्रवर्ग्यमुद्वासयिष्यन्नजामग्नीधे ददाति । पष्ठौहीं ब्रह्मणे । धेनुं होत्रे । रुक्मावध्वर्यवे १

02 अपरङ् खरम् पूर्वस्मिन्खरे …{Loading}…

अपरं खरं पूर्वस्मिन्खरे न्युप्योच्छिष्टखरं सङ्कृष्योत्तरेणाहवनीयं सम्राडासन्दीं प्रतिष्ठाप्य तस्यां सर्वं परिघर्म्यं समवधायौदुम्बर्यां स्रुचि चतुर्गृहीतं गृहीत्वा घर्म या ते दिवि शुगित्येतैर्यथालिङ्गं जुहोति २

03 अपि वा प्रतिप्रस्थाता …{Loading}…

अपि वा प्रतिप्रस्थाता त्रीन्सन्नखाञ्छलाकामुष्टीनादाय तेषामेकमाहवनीये प्रदीप्यास्यदघ्ने धारयति । तमध्वर्युरभिजुहोति घर्म या ते दिवि शुगिति । तस्मिन्नपरं प्रदीप्याहवनीये पूर्वं प्रहृत्य नाभिदघ्ने धारयति । तमध्वर्युरभिजुहोति घर्म या तेऽन्तरिक्षे शुगिति । तस्मिन्नपरं प्रदीप्याहवनीये पूर्वं प्रहृत्य जानुदघ्रे धारयति । तमध्वर्युरभिजुहोति घर्म या ते पृथिव्यां शुगिति ३

04 आहवनीय एवैनमनुप्रहरति …{Loading}…

आहवनीय एवैनमनुप्रहरति ४

05 अनु नोऽद्यानुमतिरिति परिश्रिते …{Loading}…

अनु नोऽद्यानुमतिरिति परिश्रिते प्रतिप्रस्थाता पत्नीमुदानयति ५

06 अन्विदनुमत इत्युपनिष्क्रामन्ति …{Loading}…

अन्विदनुमत इत्युपनिष्क्रामन्ति ६

07 अनुहरन्ति मेथीमभ्रिम् मयूखान्विशाखदामानि …{Loading}…

अनुहरन्ति मेथीमभ्रिं मयूखान्विशाखदामानि खराविति ७

08 दक्षिणत उच्छिष्टखरम् परिहरति …{Loading}…

दक्षिणत उच्छिष्टखरं परिहरति ८

09 सम्राडासन्द्या द्वावन्तर्वेदि पादौ …{Loading}…

सम्राडासन्द्या द्वावन्तर्वेदि पादौ द्वौ बहिर्वेदि प्रतिष्ठाप्य सम्प्रेष्यति प्रस्तोतः साम गायेति ९

10 सर्वे सहपत्नीकास्त्रिः साम्नो …{Loading}…

सर्वे सहपत्नीकास्त्रिः साम्नो निधनमुपयन्ति । अधाध्ये द्वितीयम् । प्राप्यापरेणोत्तरवेदिं तृतीयम् । सर्वत्र सम्प्रेष्यति १०

इति त्रयोदशी कण्डिका


  1. For the time of the disposal of Pravargya, see XI.5.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. ŚB XIV.3.1.32-35. ↩︎ ↩︎ ↩︎