१२

01 घर्माय संसाद्यमानायानुब्रूहीति सम्प्रेष्यति …{Loading}…

घर्माय संसाद्यमानायानुब्रूहीति सम्प्रेष्यति । संसाद्यमानायानुब्रूहीति वा १

02 आ यस्मिन्सप्त वासवा …{Loading}…

आ यस्मिन्सप्त वासवा इत्यभिज्ञायाग्रेणाहवनीयं पर्याहृत्य सम्राडासन्द्यां सादयति स्वाहा त्वा सूर्यस्य रश्मिभ्य इति प्रातः । स्वाहा त्वा नक्षत्रेभ्य इति सायम् २

03 यत्राभिजानात्यद्धि तृणमघ्न्ये विश्वदानीमिति …{Loading}…

यत्राभिजानात्यद्धि तृणमघ्न्ये विश्वदानीमिति तद्गामवसृज्य मदन्तीरुपस्पृश्योत्तमेनानुवाकेन शान्तिं कुर्वन्ति ३

04 एवं सायम्प्रातः प्रवर्ग्योपसद्भ्याञ् …{Loading}…

एवं सायम्प्रातः प्रवर्ग्योपसद्भ्यां चरन्ति ४

05 त्र्युपसत्के षट्कृत्वः षडुपसत्के …{Loading}…

त्र्युपसत्के षट्कृत्वः । षडुपसत्के द्वादशकृत्वः । द्वादशोपसत्के चतुर्विंशतिःकृत्वः ५

06 एतावन्नाना …{Loading}…

एतावन्नाना ६

07 उत्तरेण मन्त्रेण सायं …{Loading}…

उत्तरेण मन्त्रेण सायं रौहिणं जुहोति । अपीपरो माह्नो रात्रियै मा पाहि । एषा ते अग्ने समित्तया समिध्यस्व । आयुर्मे दा वर्चसा माञ्जीरिति सायं समिधमादधाति । अपीपरो मा रात्रिया अह्नो मा पाहीति प्रातः ७

08 अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायमग्निहोत्रञ् …{Loading}…

अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायमग्निहोत्रं जुहोति । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः ८

09 संसृष्टहोमं वा …{Loading}…

संसृष्टहोमं वा ९

10 अग्निष्टोमे प्रवृणक्ति …{Loading}…

अग्निष्टोमे प्रवृणक्ति १०

11 नोक्थ्ये प्रवृञ्ज्यात् …{Loading}…

नोक्थ्ये प्रवृञ्ज्यात् ११

12 विश्वजिति सर्वपृष्ठे प्रवृणक्ति …{Loading}…

विश्वजिति सर्वपृष्ठे प्रवृणक्ति १२

13 तेन प्रवृज्य संवत्सरन् …{Loading}…

तेन प्रवृज्य संवत्सरं न मांसमश्नीयात् । न रामामुपेयात् । न मृन्मयेन पिबेत् । नास्य राम उच्छिष्टं पिबेत् । तेज एव तत्संश्यतीति विज्ञायते १३

इति द्वादशी कण्डिका इति तृतीयः पटलः


  1. Which is bound since XV.9.8. ↩︎ ↩︎ ↩︎ ↩︎

  2. The pacification is done with recitation of TĀ IV.42. See XV.5.4. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TĀ V.8.13. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. For this Sūtra cf. TĀ V.6.1-2; ŚB XIV.3.1.1. ↩︎