११

01 अथैनन् दिशोऽनु प्रहावयति ...{Loading}...

अथैनं दिशोऽनु प्रहावयति त्विष्यै त्वा द्युम्नाय त्वेन्द्रियाय त्वा भूत्य त्वेति १

02 प्रत्याक्रम्योपयमने शेषमानीयान्तर्वेद्युपयमनन् निधाय ...{Loading}...

प्रत्याक्रम्योपयमने शेषमानीयान्तर्वेद्युपयमनं निधाय पूर्वस्मिन्खरे राजतं रुक्मं निधाय तस्मिन्महावीरं प्रतिष्ठापयति धर्मासि सुधर्मामेन्यस्मे ब्रह्माणि धारयेति । क्षत्राणि धारयेति राजन्यस्य । विशं धारयेति वैश्यस्य २

03 नेत्त्वा वातः स्कन्दयादिति ...{Loading}...

नेत्त्वा वातः स्कन्दयादिति ३

04 यद्यभिचरेदमुष्य त्वा प्राणे ...{Loading}...

यद्यभिचरेदमुष्य त्वा प्राणे सादयामीति सादयेत् ४

05 अत्र प्रतिप्रस्थाता पूर्ववदुत्तरं ...{Loading}...

अत्र प्रतिप्रस्थाता पूर्ववदुत्तरं रौहिणं जुहोति ५

06 अथैताञ्छकलानुपयमनेऽञ्जञ्जुहोति पूष्णे शरसे ...{Loading}...

अथैताञ्छकलानुपयमनेऽञ्जञ्जुहोति पूष्णे शरसे स्वाहेत्येतैः प्रतिमन्त्रम् ६

07 षष्ठं शकलं सर्वेषु ...{Loading}...

षष्ठं शकलं सर्वेषु लेपेष्वक्त्वानन्व्रीक्षमाण उदञ्चं निरस्यति रुद्राय रुद्रहोत्रे स्वाहेति ७

08 पुरस्ताद्रौहिणहोमाच्छकलानेके समामनन्ति ...{Loading}...

पुरस्ताद्रौहिणहोमाच्छकलानेके समामनन्ति ८

09 अथाप उपस्पृश्य तूष्णीङ् ...{Loading}...

अथाप उपस्पृश्य तूष्णीं काण्टकीं समिधमाधायैतस्मादेव शेषादुपयमनेनाग्निहोत्रं जुहोति भूः स्वाहेति । तूष्णीं वा ९

10 उपयमने शेषं सर्वे ...{Loading}...

उपयमने शेषं सर्वे समुपहूय भक्षयन्ति १०

11 असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते उपहूत ...{Loading}...

असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते । उपहूत इति प्रतिवचनः ११

12 होताध्वर्युर्ब्रह्मा प्रतिप्रस्थाताग्नीद्यजमानश्च ...{Loading}...

होताध्वर्युर्ब्रह्मा प्रतिप्रस्थाताग्नीद्यजमानश्च १२

13 सर्वे प्रत्यक्षम् ...{Loading}...

सर्वे प्रत्यक्षम् १३

14 अपि वा यजमान ...{Loading}...

अपि वा यजमान एव प्रत्यक्षम् । अवघ्रेणेतरे १४

15 हुतं हविर्मधु हविरिति ...{Loading}...

हुतं हविर्मधु हविरिति भक्षयित्वोपयमनं प्रतिप्रस्थात्रे प्रयच्छति १५

16 तदुच्छिष्टखरे प्रक्षाल्यान्तर्वेद्युपयमनन् निधाय ...{Loading}...

तदुच्छिष्टखरे प्रक्षाल्यान्तर्वेद्युपयमनं निधाय तस्मिन्रुक्माववधाय मदन्तीरानीयापोहिष्ठीयाभिर्मार्जयित्वा निनीयापोऽत्रैव सर्वं परिघर्म्यं ममवधाय १६

इत्येकादशी कण्डिका


  1. For all the formulae see TĀ IV. 10.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. ŚB XIV.2.2.30. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. For the formula see TĀ IV.10.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. TĀ IV.10.6. ↩︎