१०

01 इन्द्राश्विना मधुनः सारघस्येति …{Loading}…

इन्द्राश्विना मधुनः सारघस्येति महाबीरे गोपय आनयति १

02 स्वाहा त्वा सूर्यस्य …{Loading}…

स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमीत्युद्यन्तमूष्माणमनुमन्त्रयते २

03 मधु हविरसीत्यजापयः …{Loading}…

मधु हविरसीत्यजापयः ३

04 अजापयस आनयनमेके पूर्वं …{Loading}…

अजापयस आनयनमेके पूर्वं समामनन्ति ४

05 सूर्यस्य तपस्तपेत्यूष्माणम् …{Loading}…

सूर्यस्य तपस्तपेत्यूष्माणम् ५

06 द्यावॄपृथिवीभ्यान् त्वा परिगृह्णामीति …{Loading}…

द्यावॄपृथिवीभ्यां त्वा परिगृह्णामीति शफाभ्यां महावीरं परिगृह्य प्रच्छिन्नाग्रेण वेदेन भस्म प्रमृज्यान्तरिक्षेण त्वोपयच्छामीत्युपयमनेन प्रतिप्रस्थातोपयच्छति ६

07 देवानान् त्वा पितॄणामनुमतो …{Loading}…

देवानां त्वा पितॄणामनुमतो भर्तुं शकेयमित्यादायोत्थाय तेजोऽसि तेजोऽनुप्रेहीति हरति ७

08 व्रजन्ननवानम् पञ्च वातनामानि …{Loading}…

व्रजन्ननवानं पञ्च वातनामानि व्याचष्टे समुद्राय त्वा वाताय स्वाहेति ८

09 अपान्य पञ्चोत्तराण्यग्नये त्वा …{Loading}…

अपान्य पञ्चोत्तराण्यग्नये त्वा वसुमते स्वाहेति ९

10 एतस्मिन्काले प्रतिप्रस्थाता दक्षिणं …{Loading}…

एतस्मिन्काले प्रतिप्रस्थाता दक्षिणं रौहिणं प्रतिष्ठितं जुहोत्यहर्ज्योतिः केतुना जुषतां सुज्योतिर्ज्योतिषां स्वाहेति १०

11 अपरेणाहवनीयन् दक्षिणातिक्रामन्विश्वा आशा …{Loading}…

अपरेणाहवनीयं दक्षिणातिक्रामन्विश्वा आशा दक्षिणसदिति ब्रह्माणमीक्षते । विश्वान्दवानयाडिहेति होतारम् । स्वाहाकृतस्य घर्मस्येति घर्ममभिमन्त्र्याश्राव्य प्रत्याश्राविते सम्प्रेष्यति घर्मस्य यजेति । अश्विना घर्मं पातमिति वषट्कृते जुहोति । स्वाहेन्द्रावडित्यनुवषट्कृते ११

12 घर्ममपातमश्विनेत्यनुवाकशेषेणोपस्थायोपर्याहवनीये धार्यमाणम् प्रतिप्रस्थाता …{Loading}…

घर्ममपातमश्विनेत्यनुवाकशेषेणोपस्थायोपर्याहवनीये धार्यमाणं प्रतिप्रस्थाता शृतदध्नाभिपूरयति १२

13 इषे पीपिह्यूर्जे पीपिहीति …{Loading}…

इषे पीपिह्यूर्जे पीपिहीति विक्षरन्तमनुमन्त्रयते १३

इति दशमी कण्डिका


  1. TĀ IV.8.15. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Both the milks are poured by the Adhvaryu. Cf. ŚB XIV.2.1.18. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See XV.5.19. ↩︎ ↩︎ ↩︎ ↩︎

  4. Cf. ŚB XIV.2.1.16. ↩︎

  5. TĀ IV.8.20 ↩︎ ↩︎

  6. Cf. ŚB XIV.2.1.17. ↩︎ ↩︎