०९

01 ततः सम्प्रेष्यत्यग्नीद्रौहिणौ पुरोडाशावासादयेयि …{Loading}…

ततः सम्प्रेष्यत्यग्नीद्रौहिणौ पुरोडाशावासादयेयि १

02 अनिष्टुब्धयोः स्रुचोरुपस्तीर्णाभिघारितौ पुरोडाशावासादयति …{Loading}…

अनिष्टुब्धयोः स्रुचोरुपस्तीर्णाभिघारितौ पुरोडाशावासादयति । दक्षिणं परिधिसन्धिमन्वेकम् । उत्तरं परिधिसन्धिमन्वितरम् २

03 सावित्रेण रशनामादायादित्यै रास्नासीत्यभिमन्त्र्य …{Loading}…

सावित्रेण रशनामादायादित्यै रास्नासीत्यभिमन्त्र्य पूर्वया द्वारोपनिष्क्रम्य त्रिरुपांशु घर्मदुघमाह्वयतीड एह्यदित एहि सरस्वत्येहीति ३

04 प्रत्येत्य दोग्ध्रे निदाने …{Loading}…

प्रत्येत्य दोग्ध्रे निदाने इत्यादाय दक्षिणया द्वारोपनिष्क्रम्य त्रिरुच्चैरसावेह्यसावेहीति यथानामा भवति ४

05 अदित्या उष्णीषमसीति रशनया …{Loading}…

अदित्या उष्णीषमसीति रशनया घर्मदुघमभिदधाति । वायुरस्यैड इति वत्सम् ५

06 पूषा त्वौपावसृजत्वित्युपावसृज्य यस्त …{Loading}…

पूषा त्वौपावसृजत्वित्युपावसृज्य यस्त स्तनः शशय इति घर्मदुघमभिमन्त्रयते ६

07 उस्र घर्मं शिंषोस्र …{Loading}…

उस्र घर्मं शिंषोस्र घर्मं पाहि घर्माय शिंषेति निदाय वत्सं बृहस्पतिस्त्वोपसीदत्वित्युपसीदति ७

08 दानवः स्थ पेरव …{Loading}…

दानवः स्थ पेरव इति स्तनान्सम्मृश्याश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पतये पिन्वस्वेन्द्राय पिन्वस्वेन्द्राय पिन्वस्वेति वर्षीयसि दोग्ध्रे दोग्धि ८

09 तूष्णीम् प्रतिप्रस्थाता ह्रसीयस्यजाम् …{Loading}…

तूष्णीं प्रतिप्रस्थाता ह्रसीयस्यजाम् ९

10 यत्राभिजानात्युत्तिष्ठ ब्रह्मणस्पत इति …{Loading}…

यत्राभिजानात्युत्तिष्ठ ब्रह्मणस्पत इति तदुपोत्तिष्ठन्तावग्नीधे पयसी प्रदाय पूर्वावतिदुत्य शफोपयमानाददाते । गायत्रोऽसीति प्रथमम् । त्रैष्टुभोऽसीति द्वितीयम् । जागतमसीत्युपयमनं प्रतिप्रस्थाता १०

11 यत्राभिजानात्युपद्रव पयसा गोधुगिति …{Loading}…

यत्राभिजानात्युपद्रव पयसा गोधुगिति तदाग्नीध्रोऽनुप्रपद्यते ११

12 सहोर्जो भागेनोप मेहीति …{Loading}…

सहोर्जो भागेनोप मेहीति पय आह्रियमाणं प्रतीक्षते १२

इति नवमी कण्डिका


  1. See XV.5.20. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XV.5.20. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See XV.6.13-17. The calves are standing towards the south. The milking takes place there. ↩︎ ↩︎ ↩︎ ↩︎

  4. TĀ IV.8.4. ↩︎ ↩︎ ↩︎

  5. Cf. TĀ V.7.1. ↩︎ ↩︎