०७

01 शकलान्काण्टकीञ् च समिधम् ...{Loading}...

शकलान्काण्टकीं च समिधम् १

02 अथैतम् प्रचरणीयम् महावीरं ...{Loading}...

अथैतं प्रचरणीयं महावीरं शफाभ्यां परिगृह्याप्रच्छिन्नाग्रेण वेदेनोपरिष्टात्सम्मार्ष्टि देव पुरश्चर सघ्यासं त्वेति २

03 प्राणाय स्वाहा व्यानाय ...{Loading}...

प्राणाय स्वाहा व्यानाय स्वाहेति स्रुवेणाहवनीये सप्तैकादश वा प्राणाहुतीर्हुत्वा देवस्त्वा सविता मध्वानक्त्विति स्रुवेणोपर्याहवनीये महावीरमक्त्वा पृथिवीं तपसस्त्रायस्वेत्यपरस्मिन्खरे राजतं रुक्मं निधाय प्रतिष्ठाप्य महावीरमन्यस्मै वा प्रद य द्वयान्मुञ्जप्रलवानादाय दक्षिणेषामग्राणि गार्हपत्ये प्रदीपयत्यर्चिषे त्वेति । तेषामग्रैरुत्तरेषां मूलानि शोचिषे त्वेति । तेषां मूलैर्दक्षिणेषां मूलानि ज्योतिषे त्वेति । तेषां मूलैरुत्तरेषामग्राणि तपसे त्वेति ३

04 तान्व्यत्यस्तानुपरि रुक्मे निदधात्यर्चिरसि ...{Loading}...

तान्व्यत्यस्तानुपरि रुक्मे निदधात्यर्चिरसि शोचिरसि ज्योतिरसि तपो ऽसीति ४

05 संसीदस्व महाँ असीति ...{Loading}...

संसीदस्व महाँ असीति तेषु महावीरं प्रतिष्ठाप्याञ्जन्ति यं प्रथयन्त इति स्रुवेण महावीरमनक्ति । अभिपूरयति वा ५

06 अध्यधि महावीरमसंस्पृशन्यजमानः प्राञ्चम् ...{Loading}...

अध्यधि महावीरमसंस्पृशन्यजमानः प्राञ्चं प्रादेशं धारयमाणो जपत्यनाधृष्या पुरस्तादित्येतैर्यथालिङ्गम् ६

07 मनोरश्वासि भूरिपुत्रेत्युत्तरतः पृथिवीमभिमृशति ...{Loading}...

मनोरश्वासि भूरिपुत्रेत्युत्तरतः पृथिवीमभिमृशति ७

08 सिद्ध्यै त्वेति धृष्टी ...{Loading}...

सिद्ध्यै त्वेति धृष्टी आदत्तोऽध्वर्युः प्रतिप्रस्थाता च ८

09 तपो ष्वग्ने अन्तराँ ...{Loading}...

तपो ष्वग्ने अन्तराँ अमित्रानिति गार्हपत्यादुदीचोऽङ्गारान्निरूह्य चितः स्थ परिचित इति प्रदक्षिणमङ्गारैः पर्यूह्य ९

इति सप्तमी कण्डिका


  1. See XV.5.11; See also XV.11.6-7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XV.5.11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TĀ IV.5.5. ↩︎ ↩︎ ↩︎

  4. Cf. TĀ V.4.5. ↩︎

  5. See XV.6.21. ↩︎