०६

01 ब्रह्मन्प्रवर्ग्येण प्रचरिष्यामः होतर्धर्ममभिष्टुहि ...{Loading}...

ब्रह्मन्प्रवर्ग्येण प्रचरिष्यामः । होतर्धर्ममभिष्टुहि । अग्नीद्रौहिणौ पुरोडाशावधिश्रय । प्रतिप्रस्थातर्विहर । प्रस्तोतः सामानि गायेति १

02 यजुर्युक्तं सामभिराक्तखमित्युपांशूक्त्वोमिन्द्रवन्तः प्रचरतेत्युच्चैरनुजानाति ...{Loading}...

यजुर्युक्तं सामभिराक्तखमित्युपांशूक्त्वोमिन्द्रवन्तः प्रचरतेत्युच्चैरनुजानाति २

03 प्रचरतेति वा ...{Loading}...

प्रचरतेति वा ३

04 यमाय त्वा मखाय ...{Loading}...

यमाय त्वा मखाय त्वेति सर्वं परिघम्यमभिपूर्वं त्रिः प्रोक्षति ४

05 प्रोक्षितानि व्यायातयति ...{Loading}...

प्रोक्षितानि व्यायातयति ५

06 अधिश्रयत्याग्नीध्रो रौहिणौ पुरोडाशौ ...{Loading}...

अधिश्रयत्याग्नीध्रो रौहिणौ पुरोडाशौ तूष्णीमुपचरितौ ६

07 एतस्मिन्काले प्रतिप्रस्थाता दर्विहोमसंस्कारेणाज्यं ...{Loading}...

एतस्मिन्काले प्रतिप्रस्थाता दर्विहोमसंस्कारेणाज्यं संस्करोति ७

08 नैतस्य संस्कारो विद्यत ...{Loading}...

नैतस्य संस्कारो विद्यत इत्यपरम् ८

09 अत्र दध्यधिश्रयति ...{Loading}...

अत्र दध्यधिश्रयति ९

10 अथैतां सम्राडासन्दीमादायाग्रेणाहवनीयम् पर्याहृत्य ...{Loading}...

अथैतां सम्राडासन्दीमादायाग्रेणाहवनीयं पर्याहृत्य पुरस्ताद्राजासन्द्याः सादयति १०

11 तस्याङ् कृष्णाजिनम् प्राचीनग्रीवमुत्तरलोमास्तीर्य ...{Loading}...

तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्नप्रचरणीयौ महावीरावुपावहरति देव पुरश्चर सघ्यासं त्वेति ११

12 उपरिष्टात्काल एष मन्त्रो ...{Loading}...

उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम् १२

13 अथैताम् मेथीम् मयूखान्विशाखदामानीत्यादायाग्रेण ...{Loading}...

अथैतां मेथीं मयूखान्विशाखदामानीत्यादायाग्रेण होतारं जघनेन गार्हपत्यं दक्षिणया द्वारोपनिर्हृत्य दक्षिणेन दक्षिणं द्वारं मेथीं निहन्ति होतुः समीक्षायै १३

14 एतस्यैव द्वारस्य पूर्वस्यै ...{Loading}...

एतस्यैव द्वारस्य पूर्वस्यै द्वार्यायै दक्षिणतो वत्साय शङ्कुम् १४

15 एतस्यैवापरस्यै द्वार्यायै दक्षिणतोऽजाया ...{Loading}...

एतस्यैवापरस्यै द्वार्यायै दक्षिणतोऽजाया अभ्यन्तरम् १५

16 उत्तरतो बर्कराय ...{Loading}...

उत्तरतो बर्कराय १६

17 तेषु विशाखदामानि व्यायातयति ...{Loading}...

तेषु विशाखदामानि व्यायातयति १७

18 तान्येव व्यायातितानि भवन्त्योद्वासनात् ...{Loading}...

तान्येव व्यायातितानि भवन्त्योद्वासनात् १८

19 तैरेनान्काले बध्नन्ति ...{Loading}...

तैरेनान्काले बध्नन्ति १९

20 ततः खरानुपवपति ...{Loading}...

ततः खरानुपवपति २०

21 उत्तरेण गार्हपत्यमेकम् उत्तरेणाहवनीयमेकम् ...{Loading}...

उत्तरेण गार्हपत्यमेकम् । उत्तरेणाहवनीयमेकम् २१

22 उत्तरपूर्वन् द्वारम् प्रत्युच्छिष्टखरङ् ...{Loading}...

उत्तरपूर्वं द्वारं प्रत्युच्छिष्टखरं करोति बाह्यतो निःषेचनवन्तम् २२

23 उत्तरेणाहवनीयं शृतदध्यासादयति ...{Loading}...

उत्तरेणाहवनीयं शृतदध्यासादयति २३

इति षष्ठी कण्डिका


  1. Cf. TĀ XV.4.1. For the Brahman see Sūtras 2-3, for the Hotr̥ see AB 1.19; KB VIII.4; ŚB XIV.1.3.3. For the Āgnīdhra see Sūtra 6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TĀ IV.4.1(2). ↩︎ ↩︎ ↩︎ ↩︎

  3. Thus one has to maintain the order a, b, c, d at every time one should not sprinkle, water on them in the following order a,c, b, d, and d, c, b, a, etc. ↩︎