०४

01 अर्चिरसीति प्रथमम् शोचिरसीति …{Loading}…

अर्चिरसीति प्रथमम् । शोचिरसीति द्वितीयम् । ज्योतिरसि तपोऽसीति तृतीयम् १

02 तूष्णीमितराण्यन्ववधाय लोहितपचनीयैः सम्भारैः …{Loading}…

तूष्णीमितराण्यन्ववधाय लोहितपचनीयैः सम्भारैः प्रच्छाद्य गार्हपत्ये मुञ्जानादीप्योपोषत्यर्चिषे त्वेत्येतैः प्रतिमन्त्रं प्रतिदिशम् २

03 अपि वा सर्वैः …{Loading}…

अपि वा सर्वैः सर्वतः ३

04 पच्यमानान्मैत्र्योपचरत्यभीमम् महिना दिवमिति …{Loading}…

पच्यमानान्मैत्र्योपचरत्यभीमं महिना दिवमिति ४

05 उत्तरया वा …{Loading}…

उत्तरया वा ५

06 पक्वेषु सिद्ध्यै त्वेति …{Loading}…

पक्वेषु सिद्ध्यै त्वेति घृष्टी आदाय भस्मापोह्य प्रथमकृतं महावीरं शफाभ्यां परिगृह्योद्वासयति ६

07 देवस्त्वा सवितोद्वपत्वित्युद्वास्यापद्यमानः पृथिव्यामाशा …{Loading}…

देवस्त्वा सवितोद्वपत्वित्युद्वास्यापद्यमानः पृथिव्यामाशा दिश आपृणेत्युत्तरतः सिकतासु प्रतिष्ठाप्य सूर्यस्य त्वा चक्षुषान्वीक्ष इत्यनुवीक्षते ७

08 एवन् द्वितीयन् तृतीयञ् …{Loading}…

एवं द्वितीयं तृतीयं चोद्वासयति । तूष्णीमितराणि ८

09 अथैनान्प्रदक्षिणं सिकताभिः पर्यूहतीदमहममुमामुष्यायणं …{Loading}…

अथैनान्प्रदक्षिणं सिकताभिः पर्यूहतीदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामीति । विशेति राजन्यस्य । पशुभिरिति वैश्यस्य ९

10 अथैनान्प्रभूतेनाजापयसा छृणत्ति गायत्रेण …{Loading}…

अथैनान्प्रभूतेनाजापयसा छृणत्ति । गायत्रेण त्वा छन्दसा छृणद्मीत्येतैस्त्रिभिस्त्रिभिरेकैकम् १०

11 अपि वा सर्वैरेकैकम् …{Loading}…

अपि वा सर्वैरेकैकम् । तूष्णीमितराणि ११

12 अथैनान्पृष्णाजिन उपनह्यासजति देव …{Loading}…

अथैनान्पृष्णाजिन उपनह्यासजति देव पुरश्चर सघ्यासं त्वेति १२

13 उपरिष्टात्काल एष मन्त्रो …{Loading}…

उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम् १३

इति चतुर्थी कण्डिका इति प्रथमः पटलः


  1. For the formulae in this Sūtra cp. TĀ IV.5.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TĀ IV.3.1.(3a). ↩︎ ↩︎ ↩︎ ↩︎

  3. See ŚB VI.5.4.10. According to Rudradatta the word upacarati in this Sūtra means “he adds fuel" (continuously, with this verse). See also XVI.5.10. ↩︎ ↩︎

  4. TĀ XVI.3.2(7). ↩︎