०३

01 गायत्रेण त्वा छन्दसा …{Loading}…

गायत्रेण त्वा छन्दसा करोमीति प्रथमम् । त्रैष्टुभेनेति द्वितीयम् । जागतेनेति तृतीयम् १

02 अपि वा सर्वैरेकैकम् …{Loading}…

अपि वा सर्वैरेकैकम् २

03 मखस्य रास्नासीत्युपबिलं रास्नाङ् …{Loading}…

मखस्य रास्नासीत्युपबिलं रास्नां करोति ३

04 अदितिस्ते बिलङ् गृह्णात्विति …{Loading}…

अदितिस्ते बिलं गृह्णात्विति वेणुपर्वणा बिलं करोति ४

05 तृतीयवेलामतिनयति …{Loading}…

तृतीयवेलामतिनयति ५

06 यावद्देवताय सौविष्टकृतायाग्निहोत्राय भक्षायाप्तम् …{Loading}…

यावद्देवताय सौविष्टकृतायाग्निहोत्राय भक्षायाप्तं मन्येतेत्यपरम् ६

07 सूर्यस्य हरसा श्रायेत्युत्तरतः …{Loading}…

सूर्यस्य हरसा श्रायेत्युत्तरतः सिकतासु प्रतिष्ठाप्य मखो ऽसीत्यनुवीक्षते ७

08 एवन् द्वितीयन् तृतीयञ् …{Loading}…

एवं द्वितीयं तृतीयं च करोति ८

09 तूष्णीमितराणि …{Loading}…

तूष्णीमितराणि ९

10 एतस्या एव मृदो …{Loading}…

एतस्या एव मृदो दोग्ध्रे करोति हस्त्याष्ठ्ये प्रसेचनवती यथा स्रुगदण्डैवम् १०

11 वर्षीय आध्वर्यवम् प्रतिप्रस्थानात् …{Loading}…

वर्षीय आध्वर्यवं प्रतिप्रस्थानात् ११

12 आज्यस्थालीं रौहिणकपाले च …{Loading}…

आज्यस्थालीं रौहिणकपाले च परिमण्डले घोटप्रकारे १२

13 घर्मेष्टकाङ् कुलायिनीमिति यदि …{Loading}…

घर्मेष्टकां कुलायिनीमिति यदि साग्निचित्यो भवति १३

14 नाप्रवर्ग्ये स्यातामित्यपरम् …{Loading}…

नाप्रवर्ग्ये स्यातामित्यपरम् १४

15 श्लक्ष्णीकरणैः श्लक्ष्णीकुर्वन्ति …{Loading}…

श्लक्ष्णीकरणैः श्लक्ष्णीकुर्वन्ति १५

16 अहतचण्डातकैर्गवीधुकैः क्लीतकाभिर्वेणुपवेभिराज्येनेति …{Loading}…

अहतचण्डातकैर्गवीधुकैः क्लीतकाभिर्वेणुपवेभिराज्येनेति १६

17 वृष्णोऽश्वस्य शकृद्गार्हपत्ये प्रदीप्य …{Loading}…

वृष्णोऽश्वस्य शकृद्गार्हपत्ये प्रदीप्य प्रथमकृतं महावीरं शफाभ्यां परिगृह्य धूपयति वृष्णो अश्वस्य निष्पदसीति १७

18 एवन् द्वितीयन् तृतीयञ् …{Loading}…

एवं द्वितीयं तृतीयं च धूपयति । तूष्णीमितराणि १८

19 शफाभ्यामेवात ऊर्ध्वम् महावीरानादत्ते …{Loading}…

शफाभ्यामेवात ऊर्ध्वं महावीरानादत्ते १९

20 अग्रेण गार्हपत्यमवटङ् खात्वा …{Loading}…

अग्रेण गार्हपत्यमवटं खात्वा लोहितपचनीयैः सम्भारैरवस्तीर्य तेषु महावीरानुपावहरति २०

इति तृतीया कण्डिका


  1. TĀ IV.2.5(19). ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TĀ IV.2.5(19). ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TĀ IV.2.5(19). ↩︎ ↩︎

  4. For this Sūtra cf. TĀ V.3.3. ↩︎