०२

01 इयत्यग्र आसीरिति वराहविहतम् ...{Loading}...

इयत्यग्र आसीरिति वराहविहतम् । देवीर्वम्रीरिति वल्मीकवपाम् । इन्द्रस्यौजोऽसीति पूतीकानजलोमानि कृष्णाजिनलोमानि च संसृज्याग्निजा असि प्रजापते रेत इति १

02 आयुर्धेहि प्राणन् धेहीत्यश्वेनावघ्राप्य ...{Loading}...

आयुर्धेहि प्राणं धेहीत्यश्वेनावघ्राप्य मधु त्वा मधुला करोत्वित्यजयाभिदोहयति २

03 अभिदोहनमेकेऽवघ्रापणात्पूर्वं समामनन्ति ...{Loading}...

अभिदोहनमेकेऽवघ्रापणात्पूर्वं समामनन्ति ३

04 बहव आर्याः परिगृह्य ...{Loading}...

बहव आर्याः परिगृह्य हरन्ति ४

05 उत्तरेण विहारमुद्धतेऽवोक्षिते सिकतोपोप्ते ...{Loading}...

उत्तरेण विहारमुद्धतेऽवोक्षिते सिकतोपोप्ते परिश्रिते निदधति ५

06 मधु त्वा मधुला ...{Loading}...

मधु त्वा मधुला करोत्विति मदन्तीरुपसृजति ६

07 ये चोखासंसर्जनाः सम्भारा ...{Loading}...

ये चोखासंसर्जनाः सम्भारा यच्चान्यद्दृढार्थ उपार्धं मन्यते ७

08 अथात्यन्तप्रदेशः ...{Loading}...

अथात्यन्तप्रदेशः ८

09 यत्किञ्च प्रवर्ग्य उदककृत्यम् ...{Loading}...

यत्किञ्च प्रवर्ग्य उदककृत्यं मदन्तीभिरेव तत्क्रयते । नैनं स्त्री प्रेक्षते न शूद्रः ९

10 न कुर्वन्नभिप्राणिति ...{Loading}...

न कुर्वन्नभिप्राणिति १०

11 अपहाय मुखमनभिप्राणन्वेणुना करोति ...{Loading}...

अपहाय मुखमनभिप्राणन्वेणुना करोति ११

12 न प्रवर्ग्यमादित्यञ् च ...{Loading}...

न प्रवर्ग्यमादित्यं च व्यवेयात् १२

13 यत्र क्वच विप्रक्रान्ते ...{Loading}...

यत्र क्वच विप्रक्रान्ते प्रवर्ग्यं आदित्योऽस्तमियात् कृतान्तादेव विरमेत् । श्वोभूते शेषं समाप्नुयात् १३

14 सम्प्रक्लिश्य मृदम् मखस्य ...{Loading}...

सम्प्रक्लिश्य मृदं मखस्य शिरोऽसीति पिण्डं कृत्वा यज्ञस्य पदे स्थ इत्यङ्गुष्ठाभ्यां निगृह्य महावीरं करोति व्युद्धिं पञ्चोद्धिमपरिमितोद्धिं वा प्रादेशमात्रमूर्ध्वसानुमुपरिष्टादासेचनवन्तं मध्ये सन्नतं वायव्यप्रकारम् १४

इति द्वितीया कण्डिका


  1. TĀ IV.2.3.(9). ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TĀ IV.2.3.(11). ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. MS, KS. ↩︎

  4. TĀ IV.2.4.(14). ↩︎