०१

01 प्रवर्ग्यं सम्भरिष्यन्नमावास्यायाम् पौर्णमास्यामापूर्यमाणपक्षस्य ...{Loading}...

प्रवर्ग्यं सम्भरिष्यन्नमावास्यायां पौर्णमास्यामापूर्यमाणपक्षस्य वा पुण्ये नक्षत्रे तूष्णीं काण्टकीं समिधमाधाय युञ्जते मन इति चतुर्गृहीतं जुहोति १

02 अथ यदि दीक्षितः ...{Loading}...

अथ यदि दीक्षितः काण्टकीमेवैतया समिधमादध्यात् । यजुरेव वदेदित्येके २

03 देवस्य त्वा सवितुः ...{Loading}...

देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादायाभ्रिरसि नारिरसीत्यभिमन्त्रयते ३

04 साग्निक्या व्याख्याता ...{Loading}...

साग्निक्या व्याख्याता ४

05 उत्तिष्ठ ब्रह्मणस्पत इति ...{Loading}...

उत्तिष्ठ ब्रह्मणस्पत इति ब्रह्माणमानन्त्रयते ५

06 उपोत्तिष्ठति ब्रह्मा उभावुत्तरमर्धर्चञ् ...{Loading}...

उपोत्तिष्ठति ब्रह्मा । उभावुत्तरमर्धर्चं जपतः । आददते कृष्णाजिनम् । अनुनयन्त्यजां पुंश्छगलामश्वं वृषाणमिति ६

07 प्रैतु ब्रह्मणस्पतिरिति प्राञ्चोऽश्वप्रथमा ...{Loading}...

प्रैतु ब्रह्मणस्पतिरिति प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति यत्र मृदं खनिष्यन्तः स्युः ७

08 अपि वास्यैते सम्भाराः ...{Loading}...

अपि वास्यैते सम्भाराः परिश्रितेऽभ्युदाहृता भवन्ति ८

09 अग्रेणाहवनीयम् मृत्खनः पूर्वःपूर्व ...{Loading}...

अग्रेणाहवनीयं मृत्खनः । पूर्वःपूर्व इतरः ९

10 उत्तरेण मृत्खनङ् कृष्णाजिनम् ...{Loading}...

उत्तरेण मृत्खनं कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य देवी द्यावापृथिवी इति मृत्खनमभिमन्त्रयते । ऋध्यासमद्येति मृत्खनेऽभ्रिया प्रहृत्य मखस्य शिर इत्यपादाय मखाय त्वेति हरति । मखस्य त्वा शीर्ष्ण इति कृष्णाजिने निवपति १०

11 एवन् द्वितीयञ् च ...{Loading}...

एवं द्वितीयं च हरति ११

12 तूष्णीञ् चतुर्थं यावतीम् ...{Loading}...

तूष्णीं चतुर्थं यावतीं मृदं प्रवर्ग्यपात्रेभ्य आप्तां मन्यते १२

13 एवमितरान्सम्भारान् ...{Loading}...

एवमितरान्सम्भारान् १३

14 अभिमन्त्रणे विकारः ...{Loading}...

अभिमन्त्रणे विकारः १४

इति प्रथमा कण्डिका


  1. TĀ IV.2.1; in accordance with the ritual TĀ.V.2.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TĀ V.2.2. Āpastamba here mentions the view of his own school as that of “some” others. ↩︎ ↩︎ ↩︎

  3. TĀ IV.2.2.(7B). ↩︎

  4. Cf. TĀ V.2.7. ↩︎

  5. TĀ IV.2.3.(8). ↩︎

  6. Cf. ŚB XIV.1.2.1. ↩︎

  7. TĀ IV.2.3.(8). ↩︎