३४

01 यस्याग्निरुख्य उद्वायोद्गार्हपत्यादन्यम् प्रणयेत् ...{Loading}...

यस्याग्निरुख्य उद्वायोद्गार्हपत्यादन्यं प्रणयेत् । स एव पुनः परीध्यः । स्वादेवैनं योनेर्जनयतीति विज्ञायते १

02 कृष्णं वासः कृष्णा ...{Loading}...

कृष्णं वासः कृष्णा धेनुः कृष्णो वा गौः शतमानं च हिरण्यं दक्षिणा २

03 यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने क्रियते ...{Loading}...

यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने क्रियते तेनाहरभ्यासजति । तेन यज्ञं सन्तनोति ३

04 यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने वसतीवरीर्यज्ञायज्ञियम् ...{Loading}...

यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने वसतीवरीर्यज्ञायज्ञियं प्रति गृह्णाति तेनाहरभ्यासजति । तेन यज्ञं सन्तनोति । यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने पयांसि विशास्ति तेनाहरभ्यासजति । तेन यज्ञं सन्तनोति । यदतिप्रेष्यति तेनाहरभ्यासजति । तेन यज्ञं सन्तनोति ४

05 एतेषामेकस्मिन्नप्यक्रियमाणे नमो ब्रह्मणे ...{Loading}...

एतेषामेकस्मिन्नप्यक्रियमाणे नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि स्वाहेत्याहुतिं हुत्वा सर्वप्रायश्चित्तं जुहुयाज्जुहुयात् ५

इति चतुस्त्रिंशी कण्डिका इति दशमः पटलः इति चतुर्दशः प्रश्नः


  1. In the manner described in XVI.9.4-14. ↩︎ ↩︎ ↩︎ ↩︎

  2. MS III.4.7. ↩︎ ↩︎ ↩︎

  3. See e.g. XXI.26.7. ↩︎