३३

01 ब्रह्मा वा मनसा ...{Loading}...

ब्रह्मा वा मनसा ध्यायन्नासीत १

02 यद्यौदुम्बरी नश्येदन्याम् प्रच्छिद्योर्गस्यर्जम् ...{Loading}...

यद्यौदुम्बरी नश्येदन्यां प्रच्छिद्योर्गस्यर्जं मयि धेहि श्रियां तिष्ठ प्रतिष्ठिता । दिवं स्तब्ध्वान्तरिक्षं च पृथिव्यां च दृढा भव । धर्त्रि धरित्रि जनित्रि यमित्रीत्यध्वर्युरुद्गाता यजमानश्चोच्छ्रयन्ति २

03 सम्मितान् नित्येन यजुषाभिमृशति ...{Loading}...

सम्मितां नित्येन यजुषाभिमृशति ३

04 यदि हविर्धाने पद्येयातान् ...{Loading}...

यदि हविर्धाने पद्येयातां दक्षिणमध्वर्युरुद्गृह्णीयात्प्रतिप्रस्थातोपस्तभ्नुयात् । उत्तरं प्रतिप्रस्थातोद्गृह्णीयादध्वर्युरुपस्तभ्रुयात् ४

05 वैष्णव्योपस्तभ्नुतः वैष्णव्योपमिनुते आश्विना ...{Loading}...

वैष्णव्योपस्तभ्नुतः । वैष्णव्योपमिनुते । आश्विना कल्पयतः ५

06 अग्ने वाजस्य गोमत ...{Loading}...

अग्ने वाजस्य गोमत इति तिस्रः । भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः । भद्रा उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये । येना समत्सु सासहः । येना समत्सु सासहो ऽव स्थिरा तनुहि भूरि शर्धताम् । वनेमा ते अभिष्टिभिरिति षड्भिरुष्णिक्ककुद्भिराग्नीध्रीये जुहुतः ६

07 पूर्वाभिरुष्णिग्भिरध्वर्युः उत्तराभिः ककुद्भिः ...{Loading}...

पूर्वाभिरुष्णिग्भिरध्वर्युः । उत्तराभिः ककुद्भिः प्रतिप्रस्थाता ७

08 शिरो यज्ञस्य प्रतिधीयताममृतन् ...{Loading}...

शिरो यज्ञस्य प्रतिधीयताममृतं देवतामयम् । वेष्णव्या क्रियतां शिर आश्विन्या प्रतिधीयतामिति पञ्चगृहीतेन समानौ होमौ जुहुतः ८

09 यद्याग्निक्युखामा भिद्येत सङ्कृष्यैनाम् ...{Loading}...

यद्याग्निक्युखामा भिद्येत सङ्कृष्यैनां पुनः कुर्यात् ९

10 यदि पक्वा सम्पिष्यान्यया ...{Loading}...

यदि पक्वा सम्पिष्यान्यया मृदा संसृज्योखां कारयेत् १०

इति त्रयस्त्रिंशी कण्डिका


  1. See XIV.32.1. ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.2.13.i. ↩︎ ↩︎

  3. e.g. TS I.4.6.a. ↩︎