01 ब्रह्मा वा मनसा …{Loading}…
ब्रह्मा वा मनसा ध्यायन्नासीत १
थिते
- Or the Brahman should remain seated while meditating (on these sacred utterances).1
ब्रह्मा वा मनसा ध्यायन्नासीत १
02 यद्यौदुम्बरी नश्येदन्याम् प्रच्छिद्योर्गस्यर्जम् …{Loading}…
यद्यौदुम्बरी नश्येदन्यां प्रच्छिद्योर्गस्यर्जं मयि धेहि श्रियां तिष्ठ प्रतिष्ठिता । दिवं स्तब्ध्वान्तरिक्षं च पृथिव्यां च दृढा भव । धर्त्रि धरित्रि जनित्रि यमित्रीत्यध्वर्युरुद्गाता यजमानश्चोच्छ्रयन्ति २
थिते
- If the Audumbarī (post of Udumbara-wood) is destroyed con account of worms etc.) having cut (i.e. having got prepared) another (Audumbarī-post), the Adhvaryu, Udgatr̥ and the sacrificer raise it with ūrgasyūrjaṁ mayi dhehi….
यद्यौदुम्बरी नश्येदन्यां प्रच्छिद्योर्गस्यर्जं मयि धेहि श्रियां तिष्ठ प्रतिष्ठिता । दिवं स्तब्ध्वान्तरिक्षं च पृथिव्यां च दृढा भव । धर्त्रि धरित्रि जनित्रि यमित्रीत्यध्वर्युरुद्गाता यजमानश्चोच्छ्रयन्ति २
03 सम्मितान् नित्येन यजुषाभिमृशति …{Loading}…
सम्मितां नित्येन यजुषाभिमृशति ३
थिते
- After it is raised, (the Adhvaryu) touches it with the usual formula.1
सम्मितां नित्येन यजुषाभिमृशति ३
04 यदि हविर्धाने पद्येयातान् …{Loading}…
यदि हविर्धाने पद्येयातां दक्षिणमध्वर्युरुद्गृह्णीयात्प्रतिप्रस्थातोपस्तभ्नुयात् । उत्तरं प्रतिप्रस्थातोद्गृह्णीयादध्वर्युरुपस्तभ्रुयात् ४
थिते
- If the two Havirdhāna(-carts) collapse, the Adhvaryu should lift the southern; the Pratiprasthātr̥ should prop it up. The Pratiprasthātr̥ should lift up the northern, the Adhvaryu should prop it up.
यदि हविर्धाने पद्येयातां दक्षिणमध्वर्युरुद्गृह्णीयात्प्रतिप्रस्थातोपस्तभ्नुयात् । उत्तरं प्रतिप्रस्थातोद्गृह्णीयादध्वर्युरुपस्तभ्रुयात् ४
05 वैष्णव्योपस्तभ्नुतः वैष्णव्योपमिनुते आश्विना …{Loading}…
वैष्णव्योपस्तभ्नुतः । वैष्णव्योपमिनुते । आश्विना कल्पयतः ५
वैष्णव्योपस्तभ्नुतः । वैष्णव्योपमिनुते । आश्विना कल्पयतः ५
06 अग्ने वाजस्य गोमत …{Loading}…
अग्ने वाजस्य गोमत इति तिस्रः । भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः । भद्रा उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये । येना समत्सु सासहः । येना समत्सु सासहो ऽव स्थिरा तनुहि भूरि शर्धताम् । वनेमा ते अभिष्टिभिरिति षड्भिरुष्णिक्ककुद्भिराग्नीध्रीये जुहुतः ६

07 पूर्वाभिरुष्णिग्भिरध्वर्युः उत्तराभिः ककुद्भिः …{Loading}…
पूर्वाभिरुष्णिग्भिरध्वर्युः । उत्तराभिः ककुद्भिः प्रतिप्रस्थाता ७
थिते
- The Adhvaryu (offers the libations) with the first (three verses in) Uṣṇiḥ; the Pratiprashtātr̥ (offers the libations) with the next (three verses in) Kakubh.
पूर्वाभिरुष्णिग्भिरध्वर्युः । उत्तराभिः ककुद्भिः प्रतिप्रस्थाता ७
08 शिरो यज्ञस्य प्रतिधीयताममृतन् …{Loading}…
शिरो यज्ञस्य प्रतिधीयताममृतं देवतामयम् । वेष्णव्या क्रियतां शिर आश्विन्या प्रतिधीयतामिति पञ्चगृहीतेन समानौ होमौ जुहुतः ८
थिते
- With śiro yajñasya pratidhīyatām… both of them, each reciting this verse, offer (a libation of ghee) in the Āgnīdhra (fire-hearth).
शिरो यज्ञस्य प्रतिधीयताममृतं देवतामयम् । वेष्णव्या क्रियतां शिर आश्विन्या प्रतिधीयतामिति पञ्चगृहीतेन समानौ होमौ जुहुतः ८
09 यद्याग्निक्युखामा भिद्येत सङ्कृष्यैनाम् …{Loading}…
यद्याग्निक्युखामा भिद्येत सङ्कृष्यैनां पुनः कुर्यात् ९
थिते
- If the fire pan while it is still raw (unbaked) is broken, then having pounded (the pieces of it) he should prepare it again.
यद्याग्निक्युखामा भिद्येत सङ्कृष्यैनां पुनः कुर्यात् ९
10 यदि पक्वा सम्पिष्यान्यया …{Loading}…
यदि पक्वा सम्पिष्यान्यया मृदा संसृज्योखां कारयेत् १०
थिते
- If it breaks (after it has been already) baked, he should, after having mixed (the pieces of it) with another clay prepare (a new) fire-pan.
यदि पक्वा सम्पिष्यान्यया मृदा संसृज्योखां कारयेत् १०
इति त्रयस्त्रिंशी कण्डिका