३२

01 अपाम् पुष्पमस्योषधीनां रसः ...{Loading}...

अपां पुष्पमस्योषधीनां रसः सोमस्य प्रियं धामाग्नेः प्रियतमं हविः स्वाहा । अपां पुष्पमस्योषधीनां रसः सोमस्य प्रियं धामेन्द्रस्य प्रियतमं हविः स्वाहा । अपां पुष्पमस्योषधीनां रसः सोमस्य प्रियं धाम विश्वेषां देवानां प्रियतमं हविः स्वाहेति १

02 वयं सोम व्रते ...{Loading}...

वयं सोम व्रते तव मनस्तनूषु पिप्रतः । प्रजावन्तो अशीमहीति शेषं भक्षयित्वा देवेभ्यः पितृभ्यः स्वाहा सोभ्येभ्यः पितृभ्यः स्वाहा कव्येभ्यः पितृभ्यः स्वाहेति दक्षिणाग्नौ प्रतिमन्त्रं जुहोति २

03 तञ् जघनेन दक्षिणाप्रागग्रान्दर्भान्संस्तीर्य ...{Loading}...

तं जघनेन दक्षिणाप्रागग्रान्दर्भान्संस्तीर्य दधि ददाति देवास इह मादयध्वं सोम्यास इह मादयध्वं कव्यास इह मादयध्वमिति ३

04 अनन्तरिताः पितरः सोम्याः ...{Loading}...

अनन्तरिताः पितरः सोम्याः सोमपीथादित्युपतिष्ठते ४

05 भये जातेऽशक्ये यष्टुं ...{Loading}...

भये जातेऽशक्ये यष्टुं सर्वेभ्यो हविर्भ्यः सोमेभ्यश्च द्रोणकलशे समवधाय ये देवा येषामिदं भागधेयं बभूव येषां प्रयाजा उतानूयाजाः । इन्द्रज्येष्ठेभ्यो वरुणराजभ्योऽग्निहोतृभ्यो देवेभ्यः स्वाहेति द्रोणकलशेन हुत्वाभये पुनर्यजेत ५

06 यदर्धर्चाल्लुप्येताभिप्रतिगृणीयाद्वा त्वन् नो ...{Loading}...

यदर्धर्चाल्लुप्येताभिप्रतिगृणीयाद्वा त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापत इति चतस्र आहुतीर्जुहुयात् । व्याहृतीश्च ६

07 यदृक्तो यज्ञम् भ्रेष ...{Loading}...

यदृक्तो यज्ञं भ्रेष आगच्छेद्भूरिति गार्हपत्ये जुहुयात् । यदि यजुष्टो भुव इति दक्षिणाग्नौ । यदि सामतः सुवरित्याहवनीये । यदि सर्वतः सर्वा जुहुयात् ७

इति द्वात्रिंशी कण्डिका


  1. TB III.7.14.2. For Sūtras XIV.31.9 and XIV.32.1; cp.LatyāŚS III.2; DrāhyāŚS VII.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. The sacrificer who has drunk Soma in the sacrifice of someone else. ↩︎ ↩︎