३१

01 यदि सदोहविर्धानानि कृष्णशकुनिरुपर्युपर्यतिपतेत्यक्षाभ्यामाधून्वान ...{Loading}...

यदि सदोहविर्धानानि कृष्णशकुनिरुपर्युपर्यतिपतेत्यक्षाभ्यामाधून्वान इवाभिनिषीदेद्वेदं विष्णुर्विचक्रम इत्याहुतिं जुहुयात् । यद्युच्चैः पतेन्न तदाद्रियेत १

02 यद्यनो रथो वान्तराग्री ...{Loading}...

यद्यनो रथो वान्तराग्री सदोहविर्धाने वा वीयात्पाथिकृतीं पूर्ववन्निर्वपेत् २

03 यदि हविर्धानम् पद्येतोदस्ताम्प्सीत्सविता ...{Loading}...

यदि हविर्धानं पद्येतोदस्ताम्प्सीत्सविता मित्रो अर्यमा सर्वानमित्रानवधीद्युगेन । बृहन्तं मामकरद्वीरवन्तं रथन्तरे श्रयस्व स्वाहेत्याहवनीये जुहुयात् ३

04 एतेनैव पृथिव्यां वामदेव्ये ...{Loading}...

एतेनैव पृथिव्यां वामदेव्ये श्रयस्व स्वाहेति होत्रीये यदि सदः ४

05 अन्तरिक्षे बृहति श्रयस्व ...{Loading}...

अन्तरिक्षे बृहति श्रयस्व स्वाहेत्याग्नीध्रीये यद्याग्नीध्रम् ५

06 यदि प्राग्वंशं सर्वैः ...{Loading}...

यदि प्राग्वंशं सर्वैः शालामुखीये जुहुयात् ६

07 दिवि बृहता त्वोपस्तभ्नोमीति ...{Loading}...

दिवि बृहता त्वोपस्तभ्नोमीति सर्वेषामुपस्तम्भनः समानः ७

08 यद्येनमार्त्विज्याद्वृतं सन्तन् निर्हरेरन्नाग्नीध्रे ...{Loading}...

यद्येनमार्त्विज्याद्वृतं सन्तं निर्हरेरन्नाग्नीध्रे जुहुयादनु मा सर्वो यज्ञोऽयमेतु विश्वे देवा मरुतः सामार्कः । आप्रियश्छन्दांसि निविदो यजूंष्यस्यै पृथिव्यै यद्यज्ञियमिति ८

09 अन्ययज्ञे सोमम् भक्षयित्वाग्निभ्यः ...{Loading}...

अन्ययज्ञे सोमं भक्षयित्वाग्निभ्यः परिभक्षमाज्येनाहवनीये जुहुयात् ९

इत्येकत्रिंशी कण्डिका


  1. TS I.2.13.e. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See IX.1.19-21. ↩︎ ↩︎ ↩︎

  3. The sentence is incomplete. The formulae to be used at the time of this offering are given in the next Sūtra. ↩︎