३०

01 यद्देवा देवहेडनमिति वा ...{Loading}...

यद्देवा देवहेडनमिति वा दशाहुतीर्हुत्वा पवमानः सुवर्जन इत्येतेनानुवाकेनाभिषिञ्चेत् १

02 यदि हुताहुतौ सोमौ ...{Loading}...

यदि हुताहुतौ सोमौ संसृज्येयातामन्तःपरिध्यङ्गारं निर्वर्त्य यज्ञस्य हि स्थ ऋत्वियाविन्द्राग्नी चेतनस्य च । हुताहुतस्य तृप्यतमहुतस्य हुतस्य च । हुतस्य चाहुतस्य चाहुतस्य हुतस्य च । इन्द्राग्नी अस्य सोमस्य वीतं पिबतं जुषेथामित्यङ्गारे हुत्वा तमस्मै भक्षं प्रयच्छेत् २

03 मा यजमानन् तमो ...{Loading}...

मा यजमानं तमो विदन्मर्त्विजो मो इमाः प्रजाः । मा यः सोममिमं पिबात्संसृष्टमुभयं कृतमिति भक्षयति ३

04 मा नो ध्वारिषुः ...{Loading}...

मा नो ध्वारिषुः पितरो मोत वीरा मा नः सबन्धुरुत वान्यबन्धुः । मा नो दुश्चक्षा अघशंस ईशताहुतोऽयं यज्ञमप्येतु देवानिति भक्षयन्तमभिमन्त्रयते ४

05 सप्तर्त्विजः सप्त सदांस्येषान् ...{Loading}...

सप्तर्त्विजः सप्त सदांस्येषां दश क्षिपो अश्विना पञ्च वाजाः । प्राणो व्यानोऽपानो मन आकूतमग्निः स्वाहाकृतं हविरदन्तु देवा इति भक्षं व्यापन्नमभिमन्त्र्येदं विष्णुर्विचक्रम इति दक्षिणपूर्व उपरवेऽवनयेत् ५

06 उत्तरपूर्वे वा ...{Loading}...

उत्तरपूर्वे वा ६

07 यः सोमवामी स्यात्तस्मा ...{Loading}...

यः सोमवामी स्यात्तस्मा एतं सोमेन्द्रं श्यामाकं चरुं निर्वपेत् ७

इति त्रिंशी कण्डिका इति नवमः पटलः


  1. TB III.7.12.1ff; TĀ II.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB I.4.8. For the ritual see TĀ II.8. ↩︎ ↩︎ ↩︎