01 यद्देवा देवहेडनमिति वा …{Loading}…
यद्देवा देवहेडनमिति वा दशाहुतीर्हुत्वा पवमानः सुवर्जन इत्येतेनानुवाकेनाभिषिञ्चेत् १

02 यदि हुताहुतौ सोमौ …{Loading}…
यदि हुताहुतौ सोमौ संसृज्येयातामन्तःपरिध्यङ्गारं निर्वर्त्य यज्ञस्य हि स्थ ऋत्वियाविन्द्राग्नी चेतनस्य च । हुताहुतस्य तृप्यतमहुतस्य हुतस्य च । हुतस्य चाहुतस्य चाहुतस्य हुतस्य च । इन्द्राग्नी अस्य सोमस्य वीतं पिबतं जुषेथामित्यङ्गारे हुत्वा तमस्मै भक्षं प्रयच्छेत् २
थिते
- If the Soma (-scoop) out which a libation is made and the one out of which no libation is made are mixed together having taken away a burning ember (from the Āhavanīya-fire) within the enclosing sticks, having offered a libation (of the mixed Soma) on the ember with yajñasya hi stha r̥tviyāvindrāgnī…1 he should give the Soma to the concerned priest for drinking.2
यदि हुताहुतौ सोमौ संसृज्येयातामन्तःपरिध्यङ्गारं निर्वर्त्य यज्ञस्य हि स्थ ऋत्वियाविन्द्राग्नी चेतनस्य च । हुताहुतस्य तृप्यतमहुतस्य हुतस्य च । हुतस्य चाहुतस्य चाहुतस्य हुतस्य च । इन्द्राग्नी अस्य सोमस्य वीतं पिबतं जुषेथामित्यङ्गारे हुत्वा तमस्मै भक्षं प्रयच्छेत् २
03 मा यजमानन् तमो …{Loading}…
मा यजमानं तमो विदन्मर्त्विजो मो इमाः प्रजाः । मा यः सोममिमं पिबात्संसृष्टमुभयं कृतमिति भक्षयति ३
थिते
- (The concerned priest) drinks (the Soma) with mā yajamānaṁ tamo vidat…1
मा यजमानं तमो विदन्मर्त्विजो मो इमाः प्रजाः । मा यः सोममिमं पिबात्संसृष्टमुभयं कृतमिति भक्षयति ३
04 मा नो ध्वारिषुः …{Loading}…
मा नो ध्वारिषुः पितरो मोत वीरा मा नः सबन्धुरुत वान्यबन्धुः । मा नो दुश्चक्षा अघशंस ईशताहुतोऽयं यज्ञमप्येतु देवानिति भक्षयन्तमभिमन्त्रयते ४
थिते
- (The Adhvaryu) addresses the concerned priest who is drinking (the Soma), with mā no dhvāriṣuḥ…1
मा नो ध्वारिषुः पितरो मोत वीरा मा नः सबन्धुरुत वान्यबन्धुः । मा नो दुश्चक्षा अघशंस ईशताहुतोऽयं यज्ञमप्येतु देवानिति भक्षयन्तमभिमन्त्रयते ४
05 सप्तर्त्विजः सप्त सदांस्येषान् …{Loading}…
सप्तर्त्विजः सप्त सदांस्येषां दश क्षिपो अश्विना पञ्च वाजाः । प्राणो व्यानोऽपानो मन आकूतमग्निः स्वाहाकृतं हविरदन्तु देवा इति भक्षं व्यापन्नमभिमन्त्र्येदं विष्णुर्विचक्रम इति दक्षिणपूर्व उपरवेऽवनयेत् ५

06 उत्तरपूर्वे वा …{Loading}…
उत्तरपूर्वे वा ६
थिते
- Or in the north-eastern (Uparava).1
उत्तरपूर्वे वा ६
07 यः सोमवामी स्यात्तस्मा …{Loading}…
यः सोमवामी स्यात्तस्मा एतं सोमेन्द्रं श्यामाकं चरुं निर्वपेत् ७
थिते
- For the sake of him who has vomitted Soma, he should pour out (grains in order to prepare) a pap for Soma and Indra.1
यः सोमवामी स्यात्तस्मा एतं सोमेन्द्रं श्यामाकं चरुं निर्वपेत् ७
इति त्रिंशी कण्डिका इति नवमः पटलः