२९

01 यदि चमसमभक्षितं स्तोत्रेणाभ्युपाकुर्यादारमतेत्युक्त्वोत ...{Loading}...

यदि चमसमभक्षितं स्तोत्रेणाभ्युपाकुर्यादारमतेत्युक्त्वोत त्या नो दिवा मतिरदितिरूत्यागमत् । सा शन्ताची मयस्करदप स्रिधः । उत त्या दैव्या भिषजा शं नस्करतो अश्विना । यूयातामस्मद्रपो अप स्रिधः । शमग्निरग्निभिस्करच्छं नस्तपतु सूर्यः । शं वातो वात्वरपा अप स्रिध इति तिस्र आग्नीध्रीये हुत्वा तं सदसि भक्षयित्वोत्तरवाससा प्रच्छाद्य दक्षिणां द्वार्बाहुमनु निर्हृत्य मार्जालीये प्रक्षाल्य पूर्वयातिहृत्य तदित्पदं न विचिकेत विद्वान्यन्मृतः पुनरप्येति जीवान् । त्रिवृद्यद्भुवनस्य रथवृज्जीवो गर्भो न मृतः स जीवादिति तन्नचमसेष्वपिसृज्य हिरण्यगर्भः समवर्तताग्र इत्याहुतिं हुत्वाप्यायस्व मदिन्तम सोम विश्वाभिरूतिभिः । भवा नः सप्रथस्तम इत्याप्याययति १

02 प्रत्यस्मै पिपीषते विश्वानि ...{Loading}...

प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । अरङ्गमाय जग्मवेऽपश्चाद्दघ्वने नर इत्यववृष्टं भक्षमभिमन्त्र्येन्दुरिन्दुमवागादिन्दोरिन्द्रोऽपात् । तस्य त इन्दविन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति भक्षयति २

03 यदि दीक्षितोऽवकिरेदप्स्वग्न इत्येषा ...{Loading}...

यदि दीक्षितोऽवकिरेदप्स्वग्न इत्येषा । तपो ष्वग्ने अन्तराँ अमित्रांस्तपा शंसमररुषः परस्य । तपा वसो चिकितानो अचितान्वि ते तिष्ठन्तामजरा अयासः । यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो वनुष्यात् । तमजरेभिर्वृषभिस्तप स्वैस्तपा तपस्व तपसा तपिष्ठ । स स्मा कृणोतु केतुमा नक्तं चिद्दूर आ सते । पावको यद्वनस्पतीन्प्रास्मा निनोत्यजरः । नहि ते अग्ने तनुवै क्रूरमानाश मर्त्यः । कपिर्बभस्ति तेजनं स्वं जरायु गौरिव । मेष इव यदुप च वि च चर्वरि यदप्सररूपरस्य खादति । शीर्ष्णा गिरौ वक्षसा वक्ष एजयन्नंशुं गभस्ति हरितेभिरासभिरिति षट् पूर्णाहुतीर्हुत्वा प्रत्याहुति वरान्दद्यात् ३

इत्येकोनत्रिंशी कण्डिका


  1. TB III.7.10.4-5; R̥V VIII.18.7-9. ↩︎ ↩︎ ↩︎

  2. Cf. JB I.351; cp. ŚāṅkhāŚS XIII.12.12. ↩︎

  3. Cp. JB I.351. ↩︎

  4. KS XXXV.13; TB III.7.10.6 ↩︎

  5. TS IV.1.8.n; TMB IX.9.12; JB I.351. ↩︎

  6. See XII.29.5. ↩︎