२८

01 यदि नाराशंस उपदस्येद्यमध्वर्युः ...{Loading}...

यदि नाराशंस उपदस्येद्यमध्वर्युः पूर्वं ग्रहं गृह्णीयात्तं वषट्कृतानुवषट्कृते हुत्वा चमसाध्वर्यवे प्रयच्छेत् । तेनैनं स आप्याययत्याप्यायस्व समेतु त इति १

02 यदि प्रातःसवने सोमो ...{Loading}...

यदि प्रातःसवने सोमो हविर्वा स्कन्देन्माध्यन्दिने तृतीयसवने नक्तं तिरोअह्न्येषु वा देवां जनमगन्यज्ञ इत्येतैर्यथापूर्वमभिमन्त्र्य मनो ज्योतिर्जुषतामित्याहुतिं जुहुयात् २

03 त्रयस्त्रिंशत् द्रप्सश्चस्कन्द यस्ते ...{Loading}...

त्रयस्त्रिंशत् । द्रप्सश्चस्कन्द । यस्ते द्रप्सः । यो द्रप्सः । यस्ते द्रप्स इत्येतैः प्रतिमन्त्रमनुसवनं स्कन्ने पञ्चाहुतीर्जुहोतीत्येके ३

04 यदृतुग्रहैः प्रचरन्तौ मुह्येयातां ...{Loading}...

यदृतुग्रहैः प्रचरन्तौ मुह्येयातां विसृष्टधेनाः सरितो घृतश्चुतो वसन्तो ग्रीष्मो मधुमन्ति वर्षाः । शरद्धेमन्त ऋतवो मयोभुव उदप्रुतो मभसी संवसन्ताम् । आ नः प्रजां जनयतु प्रजापतिर्धाता ददातु सुमनस्यमानः । संवत्सर ऋतुभिश्चाकुपानो मयि पुष्टिं पुष्टिपतिर्दधातु । आ देवानाम् । त्वमग्ने व्रतपा असि । यद्वो वयं प्रमिनाम । मधुश्चेत्येतैः प्रतिमन्त्रं जुहोति ४

05 त इमं यज्ञमवन्तु ...{Loading}...

त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मारभध्वं स्वाहेत्यृतुनामस्वनुषजति ५

06 यदि सोमः स्कन्देद्ब्रह्मन्सोमोऽस्कानित्युक्त्वाभूद्देवः ...{Loading}...

यदि सोमः स्कन्देद्ब्रह्मन्सोमोऽस्कानित्युक्त्वाभूद्देवः सविता वन्द्यो नु न इत्यभिमन्त्र्य भूपतये स्वाहेति पञ्च प्रादेशान्मिमीते यथा पुरस्तात् ६


  1. See XII.24.25. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. i.e. the scoops conneccted with the Sandhi-stotra. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS III.2.5.k. For this Sūtra cf. TMB IX.9.5-6; KS XXXV.16. ↩︎ ↩︎ ↩︎

  4. See IX.10.16. ↩︎

  5. TS I.5.3.g. ↩︎