२७

01 यत्कलश उपदस्येत्सुवर्णं हिरण्यन् ...{Loading}...

यत्कलश उपदस्येत्सुवर्णं हिरण्यं द्वेधा विच्छिद्याधमन्तर्धायापोऽवनीय पयोऽभ्यवनयेत् । अर्धमभ्युन्नायं ग्रहैः प्रचरेयुः १

02 महर्त्विग्भ्यश्चतुरो वरान्दद्यात् ...{Loading}...

महर्त्विग्भ्यश्चतुरो वरान्दद्यात् २

03 अथैकेषाम् यत्कलश उपदस्येदाग्रयणाद्गृह्णीयात् ...{Loading}...

अथैकेषाम् । यत्कलश उपदस्येदाग्रयणाद्गृह्णीयात् । यदाग्रयणः कलशात् ३

04 यद्ग्रहो वा कलशो ...{Loading}...

यद्ग्रहो वा कलशो वोपदस्येदाग्रयणाद्गृह्णीयादन्याञ्छुक्राद्ध्रुवाच्च ४

05 द्रोणकलशाद्गृह्यन्त इति सर्वग्रहाणां ...{Loading}...

द्रोणकलशाद्गृह्यन्त इति सर्वग्रहाणां स्कन्नानामुपदस्तानां च विज्ञायते ५

06 यद्ध्रुवे उपदस्येत्स्कन्देद्दीर्येत वा ...{Loading}...

यद्ध्रुवे उपदस्येत्स्कन्देद्दीर्येत वा तमभिमन्त्रयेतायुर्धा असि ध्रुवायुर्मे धेहि । वर्चोधा असि ध्रुव वर्चो मे धेहि । तनूपा असि ध्रुव तन्वं मे पाहीति । तस्मिञ्छतमानं हिरण्यमवधाय स्वाहा दिव आप्यायस्व स्वाहान्तरिक्षादाप्यायस्व स्वाहा पृथिव्या आप्यायस्वेत्याप्याययति ६

07 अध्वरोऽयं यज्ञो अस्तु ...{Loading}...

अध्वरोऽयं यज्ञो अस्तु देवा ओषधीभ्यः पशुभ्यो मे धनाय । विश्वस्मै भूतायाध्वरो अस्तु देवाः । स पिन्वस्व घृतवद्देव यज्ञ । इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः । इन्द्र इवेह ध्रुवस्तिष्ठेह यज्ञमु धारय । इन्द्र एणमदीधरद्ध्रुवं ध्रुवेण हविषा । तस्मै देवा अधिब्रुवन्नयं च ब्रह्मणस्पतिः । ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत् । ध्रुवा ह पर्वता इमे ध्रुवो राजा विशामयमित्येताभिश्चतसृभिः सन्नमभिमन्त्र्य वरम् ददाति ७

इति सप्तविंशी कण्डिका


  1. Cf. TMB IX.9.1-3; KS XXXV.16; see also XIV.24.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. MS IV.8.9. ↩︎ ↩︎