२६

01 इन्द्रस्य ग्रहोऽस्यगृहीतो ग्राह्यो ...{Loading}...

इन्द्रस्य ग्रहोऽस्यगृहीतो ग्राह्यो देवानां पूरसि तं त्वा प्रपद्ये सह ग्रहैः सह प्रग्रहैः सह प्रजया सह पशुभिः सहर्त्विग्भ्यः सह सोग्यैः सह सदस्यैः सह दाक्षिणेयैः सह यज्ञेन सह यज्ञपतिना । इन्द्राग्नी परिधी मम वातो देवपुरा मम । ब्रह्म वर्म ममान्तरं तं त्वेन्द्रग्रह प्रपद्ये सगुः साश्वः । वर्म मे द्यावापृथिवी वर्माग्निर्वर्म सूर्यः । वर्म मे ब्रह्मणस्पतिर्मा मा प्रापदतो भयम् । इन्द्राग्नी परिधी मम वातो देवपुरा मम । ब्रह्म वर्म ममान्तरं तं त्वेन्द्रग्रह प्रविशानि सगुः साश्वः सपूरुषः । सह यन्मे अस्ति तेनेति दीर्णं यजमानो ऽनुमन्त्रयते १

02 अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय ...{Loading}...

अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय गायत्र्या अभिभूत्यै स्वाहा । अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय त्रिष्टुभोऽभिभूत्यै स्वाहा । अरिष्ट्या अव्यत्थ्यै संवेशायोपवेशाय जगत्या अभिभूत्यै स्वाहा । अरिष्ट्या अव्यथ्यै संवेशायोपवेशायानुष्टुभोऽभिभूत्यै स्वाहा । अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय पङ्क्त्या अभिभूत्यै स्वाहेत्येतैः प्रतिमन्त्रमनुसवनं दीर्णे पञ्चाहुतीर्जुहोतीत्येके २

03 यदि बहिष्पवमानं सर्पताम् ...{Loading}...

यदि बहिष्पवमानं सर्पतां प्रस्तोतापच्छिद्येत यज्ञस्य शिरश्छिद्येत । ब्रह्मणे वरं दत्त्वा स एव पुनर्वर्तव्यः ३

04 यदि प्रतिहर्ता पशुभिर्यजमानो ...{Loading}...

यदि प्रतिहर्ता पशुभिर्यजमानो व्यृध्येत । सर्ववेदसं दद्यात् ४

05 यद्युद्गाता यज्ञेन यजमानो ...{Loading}...

यद्युद्गाता यज्ञेन यजमानो व्यृध्येत । अदक्षिणः स यज्ञः संस्थाप्यः । अथान्य आहृत्यः ५

06 तत्र तद्दद्याद्यन्पूर्वस्मिन्दास्यन्स्यात् ...{Loading}...

तत्र तद्दद्याद्यन्पूर्वस्मिन्दास्यन्स्यात् ६

07 युगपदपच्छेदे तूद्गातुः प्रायश्चित्तम् ...{Loading}...

युगपदपच्छेदे तूद्गातुः प्रायश्चित्तं प्रतिहर्तुः सर्वप्रायश्चित्तम् ७

08 पूर्वापरापच्छेदे यो जघन्योऽपच्छिद्येत ...{Loading}...

पूर्वापरापच्छेदे यो जघन्योऽपच्छिद्येत तस्य प्राय श्चित्तम् ८

09 यदि माध्यन्दिन एतदेव ...{Loading}...

यदि माध्यन्दिन एतदेव । यद्यार्भवे सर्वप्रायश्चित्तं जुहुयात् ९

इति षड्विंशी कण्डिका इत्यष्टमः पटलः


  1. For the formulae and for the action cp. KS XXXV. 10. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. KS XXXV.10. ↩︎ ↩︎