२५

01 यदि सदोहविर्धानान्यभिदह्येरन्ग्रहानध्वर्युः स्पाशयेत् ...{Loading}...

यदि सदोहविर्धानान्यभिदह्येरन्ग्रहानध्वर्युः स्पाशयेत् । स्तोत्राण्युद्गाता । शस्त्राणि होता १

02 अनभिदग्धे सोमे पार्श्वतो ...{Loading}...

अनभिदग्धे सोमे पार्श्वतो देवयजनमध्यवसाय कृतान्तादेव प्रक्रामेयुः २

03 अभिदग्धे तु तत्प्रायश्चित्तं ...{Loading}...

अभिदग्धे तु तत्प्रायश्चित्तं यदपहृते ३

04 गोः स्थाने पञ्च ...{Loading}...

गोः स्थाने पञ्च गा दद्यात् । पञ्च वा वरान् ४

05 यदि प्रातःसवने ग्रावाणन् ...{Loading}...

यदि प्रातःसवने ग्रावाणं नाधिगच्छेत्पलाशदण्डमाहृत्य तेनैवाभिषुणुयात् । एतदेवास्य प्रायश्चित्तं भवतीति विज्ञायते ५

06 यदि माध्यन्दिने यदि ...{Loading}...

यदि माध्यन्दिने यदि तृतीयसवन एतदेव ६

07 यदि प्रातःसवने ग्रावा ...{Loading}...

यदि प्रातःसवने ग्रावा शीर्येत पुरस्ताद्बहिष्पवमानाद्द्युतानस्य मारुतस्य ब्रह्मसाम्ना स्तुवीरन् ७

08 ब्रह्मसाम्ना वैव ...{Loading}...

ब्रह्मसाम्ना वैव ८

09 यदि माध्यन्दिने यदि ...{Loading}...

यदि माध्यन्दिने यदि तृतीयसवन एतदेव पुरस्तात्पवमानेभ्यः स्तुवते ९

10 यदि प्रातःसवने कलशो ...{Loading}...

यदि प्रातःसवने कलशो दीर्येत वैष्णवीषु शिपिविष्टवतीष्वित्युक्तम् १०

11 अथैकेषाम् यदि प्रातःसवने ...{Loading}...

अथैकेषाम् । यदि प्रातःसवने कलशो दीर्येत वषट्कारनिधनं ब्रह्मसाम कुर्यादिति । असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वते स्वाहा शूषाय स्वाहा सूर्याय स्वाहा चन्द्राय स्वाहा गणश्रिये स्वाहा मलिम्लुचे स्वाहा ज्योतिषे स्वाहाभिभुवे स्वाहाधिपतये स्वाहा दिवां पतये स्वाहेति त्रयोदशाज्याहुतीर्हुत्वा ११

इति पञ्चविंशी कण्डिका


  1. Cf. TMB IX.9.15; KS XXXV.17. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TMB IX.9.15. ↩︎

  3. Cf. KS XXXV.17. ↩︎