२४

01 यस्याश्विने शस्यमाने सूर्यो ...{Loading}...

यस्याश्विने शस्यमाने सूर्यो नाविर्भवति सौर्यं बहुरूपमालभेत १

02 सवा अपि दाशतयीरनुब्रूयात् ...{Loading}...

सवा अपि दाशतयीरनुब्रूयात् २

03 येषान् दीक्षितानामाहवनीय उद्वायेदाग्नीध्रादुद्धरेत् ...{Loading}...

येषां दीक्षितानामाहवनीय उद्वायेदाग्नीध्रादुद्धरेत् । यदाग्नीध्रो गार्हपत्यात् । यद्गार्हपत्योऽत एव पुनर्मन्थेत् ३

04 यस्माद्दारोरुद्वायेत्तस्यारणी कुर्यात् ...{Loading}...

यस्माद्दारोरुद्वायेत्तस्यारणी कुर्यात् ४

05 क्रुमुक उपज्वलनः ...{Loading}...

क्रुमुक उपज्वलनः ५

06 महर्त्विग्भ्यश्चतुरो वरान्दद्यात् ...{Loading}...

महर्त्विग्भ्यश्चतुरो वरान्दद्यात् ६

07 यस्य सोम उपदस्येत्सुवर्णं ...{Loading}...

यस्य सोम उपदस्येत्सुवर्णं हिरण्यं द्वेधा विच्छिद्यार्धमन्तर्धायर्जीषेण सहाभिषुणुयात् । अर्धमभ्युन्नायं ग्रहैः प्रचरेयुः ७

08 महर्त्विग्भ्यश्चतुरो वरान्दद्यात् ...{Loading}...

महर्त्विग्भ्यश्चतुरो वरान्दद्यात् ८

09 यस्याक्रीतं सोममपहरेयुः क्रीणीयादेव ...{Loading}...

यस्याक्रीतं सोममपहरेयुः क्रीणीयादेव ९

10 यदि क्रीतं यो ...{Loading}...

यदि क्रीतं यो नेदिष्ठी स्यात्तत आहृत्याभिषुणुयात् १०

11 मोमाहाराय सोमविक्रयिणे वा ...{Loading}...

मोमाहाराय सोमविक्रयिणे वा यथाश्रद्धं दद्यात् ११

12 सोमाभावे पूतीकानभिषुणुयात् पूतीकाभाव ...{Loading}...

सोमाभावे पूतीकानभिषुणुयात् । पूतीकाभाव आदारान्फाल्गुनानि च यानि श्वेततूलानि स्युः । तदभावे याः काश्चैषधीः क्षीरिणीररुणदूर्वाः कुशान्वा हरितानिति वाजसनेयकम् १२

13 अप्यन्ततो व्रीहियवान् ...{Loading}...

अप्यन्ततो व्रीहियवान् १३

14 प्रतिधुषा प्रातःसवने सर्वान्सोमाञ्छ्रोणीयात् ...{Loading}...

प्रतिधुषा प्रातःसवने सर्वान्सोमाञ्छ्रोणीयात् । शृतेन माध्यंदिने सवने । दध्ना तृतीयसवने नीतमिश्रेण वा १४

15 अथैकेषाम् प्रतिधुक्च प्रातःसवने ...{Loading}...

अथैकेषाम् । प्रतिधुक्च प्रातःसवने पूतीकाश्च । शृतं च माध्यन्दिने सवने पूतीकाश्च । दधि च तृतीयसवने पूतीकाश्चेति १५

16 अग्निष्टोमः सोमः स्याद्रथन्तरसामा ...{Loading}...

अग्निष्टोमः सोमः स्याद्रथन्तरसामा १६

17 य एवर्त्विजो वृताः ...{Loading}...

य एवर्त्विजो वृताः स्युस्त एनं याजयेयुः १७

18 एकाङ् गान् दक्षिणान् ...{Loading}...

एकां गां दक्षिणां दद्यात्तभ्य एव १८

19 पुनः सोमङ् क्रीणीयात् ...{Loading}...

पुनः सोमं क्रीणीयात् १९

20 अवभृथादुदेत्य पुरस्ताद्द्वादश्यास्तस्मा एव ...{Loading}...

अवभृथादुदेत्य पुरस्ताद्द्वादश्यास्तस्मा एव क्रतवे पुनर्दीक्षेत २०

21 तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यन्स्यात् ...{Loading}...

तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यन्स्यात् २१

इति चतुर्विंशी कण्डिका


  1. Cf. TS II.1.10.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For details see the next Sūtra. For this Sūtra cf. TB 1.4.7.2-3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cp. JB I.354. ↩︎

  4. See SB IV.5.10.5-6. ↩︎