२३

01 यदि सत्त्रायागूर्य न ...{Loading}...

यदि सत्त्रायागूर्य न यजेत विश्वजितातिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन सर्ववेदसदक्षिणेन यजेत १

02 त्रैधातवीयामेके सहस्रदक्षिणां समामनन्ति ...{Loading}...

त्रैधातवीयामेके सहस्रदक्षिणां समामनन्ति २

03 सत्त्रे दीक्षित्वा यदि ...{Loading}...

सत्त्रे दीक्षित्वा यदि साम्युत्तिष्ठा सेत्सोममपभज्य विश्वजितातिरात्रेण पूर्ववद्यजेत ३

04 यदि दीक्षासूत्तिष्ठासेदवलिख्योखायास्तैरन्याम् मृदं ...{Loading}...

यदि दीक्षासूत्तिष्ठासेदवलिख्योखायास्तैरन्यां मृदं संसृज्योखां कारयेत् ४

05 अवलिख्य पशुशिरसान् तूष्णीकेष्वाश्लेषयेत् ...{Loading}...

अवलिख्य पशुशिरसां तूष्णीकेष्वाश्लेषयेत् ५

06 यद्युपसत्सु या चिता ...{Loading}...

यद्युपसत्सु या चिता चितिः स्यान्नं तामावर्तयेत् ६

07 तूष्णीकामावर्तयेत् ...{Loading}...

तूष्णीकामावर्तयेत् ७

08 मन्त्रवतीमित्यपरम् ...{Loading}...

मन्त्रवतीमित्यपरम् ८

09 चितेऽग्नावुत्तिष्ठतो नाग्निचित्या विद्यते ...{Loading}...

चितेऽग्नावुत्तिष्ठतो नाग्निचित्या विद्यते । तूष्णीं वाग्निं चिन्वीत । मन्त्रवन्तमित्यपरम् ९

10 प्रणीतेऽग्नौ तूष्णीमन्यम् प्रणयेत् ...{Loading}...

प्रणीतेऽग्नौ तूष्णीमन्यं प्रणयेत् । मन्त्रवन्तमित्यपरम् १०

11 करणेभ्योऽपाददीत महावेदेरुत्तरवेदेर्धिष्ण्योपरवखरसदोहविर्धानेभ्य इति ...{Loading}...

करणेभ्योऽपाददीत महावेदेरुत्तरवेदेर्धिष्ण्योपरवखरसदोहविर्धानेभ्य इति । तानीतरेष्वप्यर्जयेत् ११

12 यदि सर्वैरात्रिपर्यायैरस्तुतमभिव्युच्छेत्षड्भिरैन्द्रावैष्णवीभिर्होत्रे स्तुयुः ...{Loading}...

यदि सर्वैरात्रिपर्यायैरस्तुतमभिव्युच्छेत्षड्भिरैन्द्रावैष्णवीभिर्होत्रे स्तुयुः । तिसृभिस्तिसृभिरितिरेभ्यः १२

13 यदि द्वाभ्यां होत्रे ...{Loading}...

यदि द्वाभ्यां होत्रे मैत्रावरुणाय च पूर्वस्मिन्पर्याये स्तुयुः । ब्राह्मणाच्छंसिनेऽच्छावाकाय चोत्तरस्मिन् १३

14 यद्येकेन पञ्चदशभिर्होत्रे स्तुयुः ...{Loading}...

यद्येकेन पञ्चदशभिर्होत्रे स्तुयुः । पञ्चभिःपञ्चभिइरितरेभ्यः १४

15 अग्ने विवस्वदुषस इत्याश्विनस्य ...{Loading}...

अग्ने विवस्वदुषस इत्याश्विनस्य प्रतिपदं दध्यात् १५

इति त्रयोविंशी कण्डिका


  1. Cf. TB 1.4.7.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Instead of 15 in the normal procedure. ↩︎ ↩︎

  3. i.e. the recitations of the Maitrāvaruṇa, of the Brāhmaṇācchaṁsin, and of the Acchāvāka. ↩︎

  4. For this Sūtra cf. JB 1.348. ↩︎