२२

01 ऋत्विजो होतृप्रथमाः प्राचीनावीतिनो …{Loading}…

ऋत्विजो होतृप्रथमाः प्राचीनावीतिनो यामीरनुब्रुवन्तः सर्पराज्ञीनां कीर्तयन्तो दक्षिणान्केशपक्षानुद्ग्रथ्य सव्यान्प्रस्रस्य दक्षिणानूरूनाघ्नानाः सिग्भिरभिधून्वन्तस्त्रिः प्रसव्यं परियन्त्यप नः शोशुचदघमिति १

02 सव्यानुद्ग्रथ्य दक्षिणान्प्रस्रस्य सव्यानूरूनाघ्नाना …{Loading}…

सव्यानुद्ग्रथ्य दक्षिणान्प्रस्रस्य सव्यानूरूनाघ्नाना अनभिधून्वन्तस्त्रिः प्रतिपरियन्त्यप नः शोशुचदघमिति २

03 ते यदोदञ्चः सम्पद्यन्तेऽथैभ्योऽध्वर्युर्दक्षिणतोऽश्मानम् …{Loading}…

ते यदोदञ्चः सम्पद्यन्तेऽथैभ्योऽध्वर्युर्दक्षिणतोऽश्मानं परिधिं दधातीमं जीवेभ्यः परिधिं दधामि मा नो नु गादपरो अर्धमेतम् । शतं जीवन्तु शरदः पुरूचीस्तिरो मृत्युं दध्महे पर्वतेनेति ३

04 अग्निष्टोमः सोम ऐन्द्रवायवाग्रा …{Loading}…

अग्निष्टोमः सोम ऐन्द्रवायवाग्रा मैत्रावरुणाग्रा वा ४

05 यामीभिः स्तुवते …{Loading}…

यामीभिः स्तुवते ५

06 स्तोत्रेस्तोत्रे ऽस्थिकुम्भमुपनिदधाति …{Loading}…

स्तोत्रेस्तोत्रे ऽस्थिकुम्भमुपनिदधाति ६

07 मार्जालीये भक्षान्निनयन्ते …{Loading}…

मार्जालीये भक्षान्निनयन्ते ७

08 अग्न आयूंषि पवस …{Loading}…

अग्न आयूंषि पवस इति प्रतिपदं कुर्वीरन् ८

09 रथन्तरसामैषां सोमः स्यात् …{Loading}…

रथन्तरसामैषां सोमः स्यात् ९

10 आयुरेवात्मन्दधतेऽथो पाप्मानमेव विजहतो …{Loading}…

आयुरेवात्मन्दधतेऽथो पाप्मानमेव विजहतो यन्तीति विज्ञायते १०

11 यद्यु वै नाथवान्स्याद्दग्ध्वैनङ् …{Loading}…

यद्यु वै नाथवान्स्याद्दग्ध्वैनं कृष्णाजिनेऽस्थीन्युपनह्य निधाय योऽस्य स्वो नेदिष्ठी स्यात्तत्स्थाने तं दीक्षयित्वा तेन सह यजमाना आसीरन् ११

12 संवत्सरेऽस्थीनि याजयेयुः …{Loading}…

संवत्सरेऽस्थीनि याजयेयुः १२

13 व्यापातादित्याश्मरभ्यः ओदवसानीयादित्यालेखनः …{Loading}…

व्यापातादित्याश्मरभ्यः । ओदवसानीयादित्यालेखनः १३

14 अग्निष्टोमः सोम इत्येतदादि …{Loading}…

अग्निष्टोमः सोम इत्येतदादि १४

15 पूर्ववद्द्वादशं शतन् दक्षिणाः …{Loading}…

पूर्ववद्द्वादशं शतं दक्षिणाः १५

इति द्वाविंशी कण्डिका इति सप्तमः पटलः


  1. See TB 1.4.6.6. The verses connected with Yama are found in TĀ VI.5.2. The Sarparājñi-verses are TS 1.5.3. a-d. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TA VI.11. ↩︎ ↩︎ ↩︎