२१

01 या जाता ओषधय …{Loading}…

या जाता ओषधय इत्योषधिसूक्तेनैनमेताभिरद्भिरभिषिञ्चति १

02 आपः प्रजापतेः प्राणा …{Loading}…

आपः प्रजापतेः प्राणा यज्ञस्य भेषजमिति चैनमाचमयन्ति २

03 आथैनमभिमृशन्ति …{Loading}…

आथैनमभिमृशन्ति ३

04 उपांश्वन्तर्यामौ ते प्राणापानौ …{Loading}…

उपांश्वन्तर्यामौ ते प्राणापानौ पातामुपांशुसवनस्ते व्यानं पातु वाचं ते ऐन्द्रवायवः पातु दक्ष क्रतू ते मैत्रावरुणः पातु चक्षुषी ते शुक्रामन्थिनौ पातां श्रोत्रं त आश्विनः पात्वात्मानं त आग्रयणः पात्वङ्गानि त उक्थ्यः पात्वायुष्टे ध्रुवः पात्वसावसाविति सर्वत्रानुषजति ४

05 अथात्मानम् प्रत्यभिमृशत्युपांश्वन्तर्यामौ मे …{Loading}…

अथात्मानं प्रत्यभिमृशत्युपांश्वन्तर्यामौ मे प्राणापानौ पातामिति ५

06 एवङ् क्रामत्या ध्रुवात् …{Loading}…

एवं क्रामत्या ध्रुवात् ६

07 पुष्टिपतये पुष्टिश्चक्षुषे चक्षुः …{Loading}…

पुष्टिपतये पुष्टिश्चक्षुषे चक्षुः प्राणाय प्राणमात्मन आत्मानं वाचे वाचमस्मै पुनर्धेहि स्वाहेत्याहुतिं हुत्वा पूर्ववदभिमर्शः ७

08 यदि म्रियेत प्रागवभृथादग्न्यवभृथङ् …{Loading}…

यदि म्रियेत प्रागवभृथादग्न्यवभृथं कुर्वीरन् ८

09 अवभृथं वा गमयित्वा …{Loading}…

अवभृथं वा गमयित्वा प्रोक्ष्यैनमभ्युदाहृत्य स्वैरग्निभिर्यथालोकं दहेयुः ९

10 एतावदेकाहे …{Loading}…

एतावदेकाहे १०

11 अहर्गणेष्वाहर दहेत्युक्त्वा दक्षिणाग्नेरग्निमाहृत्य …{Loading}…

अहर्गणेष्वाहर दहेत्युक्त्वा दक्षिणाग्नेरग्निमाहृत्य निर्मन्थ्येन वा दग्ध्वा दक्षिणेन मार्जालीये मृतस्य दहनम् ११

12 तूष्णीन् तदहः परिसमाप्य …{Loading}…

तूष्णीं तदहः परिसमाप्य पत्नीसंयाजान्ते कुम्भेऽस्थीनि सम्भृत्य मार्जालीये निदधाति १२

13 उद्गातारस्तिसृभिः सर्पराज्ञीभिरप्रतिहृताभिः स्तुवीरन् …{Loading}…

उद्गातारस्तिसृभिः सर्पराज्ञीभिरप्रतिहृताभिः स्तुवीरन् १३

इत्येकविंशी कण्डिका


  1. TS IV.2.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. JB II.345. v ↩︎