२०

01 तत्रेमाः सामचोदना भवन्ति …{Loading}…

तत्रेमाः सामचोदना भवन्ति । तौरश्रवसं कार्यम् । वसिष्ठस्य निहवः कार्यः । अभीवर्तं ब्रह्मसाम कुरुतात् । उभे बृहद्रथन्तरे कुरुतात् । अभिजितं विश्वजितं वा यज्ञक्रतुं कुरुतात् । क्रोशानुक्रोशे कुरुतादिति १

02 पुरस्तात्प्रातःसवनात्सम्प्रेष्यति …{Loading}…

पुरस्तात्प्रातःसवनात्सम्प्रेष्यति २

03 पूर्वः संस्थाप्यः अत्यभिषुत्यं …{Loading}…

पूर्वः संस्थाप्यः । अत्यभिषुत्यं वा । दक्षिणाभिर्वा वर्षीयांसं यज्ञक्रतुं कुर्वीत ३

04 यावद्रथाह्रमन्तरा गिरिर्गिरिभिद्वा नदी …{Loading}…

यावद्रथाह्रमन्तरा गिरिर्गिरिभिद्वा नदी व्यवेयात्पर्वतान्तरये वा नानाराज्ययोर्वा संसवो नाविद्विषाणयोः संसवो विद्यत इति कङ्कतिब्राह्मणं भवति ४

05 यत्र दीक्षितानामुपतापः स्याद्यजमानायतने …{Loading}…

यत्र दीक्षितानामुपतापः स्याद्यजमानायतने शयीत ५

06 तम्परिगृह्याग्नीध्रन् नयेत् …{Loading}…

तम्परिगृह्याग्नीध्रं नयेत् ६

07 परीमम् परि ते …{Loading}…

परीमं परि ते ब्रह्मणे ददामि ब्रह्म परिददातु देवताभ्यः । वषट्कारस्त्वा भिषज्यतु सह विश्वैर्देवैः । वसव एतद्वः प्रातःसवनं रुद्रा एतद्वो माध्यन्दिनं सवनं विश्वे देवा एतद्वस्तृतीयसवनम् । तद्रक्षध्वं तद्भिषज्यत तद्गोपायत तद्वो मा विगादिति सर्वत्रानुषजति ७

08 आग्नीध्रीयमुपसमाधाय सम्परिस्तीर्य ब्राह्मणन् …{Loading}…

आग्नीध्रीयमुपसमाधाय सम्परिस्तीर्य ब्राह्मणं दक्षिणतो दर्भेषु निषाद्योत्तरत उदपात्रमुपनिधाय तस्मिन्नेकविंशतिं यवान्दर्भपुञ्जीलांश्चावधाय जीवा नाम स्थ ता इमं जीवयत जीविका नाम स्थ ता इमं जीवयत सञ्जीविका नाम स्थ ता इमं सञ्जीवयतेति प्रतिब्रूयात् ८

इति विंशी कण्डिका


  1. Cf. TMB IX.4.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XIV.19.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See XIV.19.7. ↩︎ ↩︎

  4. See XIV.19.9. ↩︎